________________
श्रीसोमचारित्रगणिविरचितं
जीवत्खामियुगादिवीरजिनपपासादपुण्योत्सवप्रश्राद्धसमृद्धनगरासनः समस्तीह यः ॥ १७॥ मित्रप्रीतिपरायणः समकलाशाली सुवृत्तालयो
घानाऽऽन्यो महता-रजन्यरहितो यो निष्कलङ्कः कलौ । विभ्रचारुषोचता दिततमा नालीकसंपद्वरः
प्राश्चत्पार्वणरोहिणीरमणवद् देदीप्यमानः सना ॥१८॥ सर्पवेषिशिलीमुखाक्षिततनुपोद्भूततेजोभर
भ्राजच्चम्पकराजघीसखवरः सङ्केश्वरः श्रीधरः । उकेशान्वयपद्मभाखदुदयः श्रीकर्मसिंहाहयः श्राद्धस्तत्र वसत्यसौ सुहृदयमाणिप्रणीतप्रियः ॥ १९ ॥
(युग्मम्) या गडावदपङ्कपुण्यभवनाका शुद्धगोत्रोद्भवा रम्भावत् कमनीयरूपकलिता कामं कुसङ्गोज्झिता । ब्राह्मीवत् परमेष्ठिजापरततावासष्टविद्याकला
लक्ष्मीनिजवत्ययार्थिनिचये मिष्टान्नपानप्रदा ॥२०॥ मुक्तालीकलयोरुहारलतया तुल्या गुणैः सज्जया पविन्याप्ततुलाञ्चलातिमृदुला पद्माकरैकालया। शीलर्द्धिः सुलसेव देवसुगुरुश्रद्धद्धभक्त्यावहा कर्मादेव्यभिधा बभस्ति सुभगा चैतस्य सा प्रेयसी ॥२१॥
(युग्मम् ) नीरोगारमादिकाऽमितसुखं भुञ्जानयोरेतयो
जज्ञे मूनुरनूनलक्षणरुचिः सुखमसंचितः । यावत्तावदतुच्छमुत्सवमसौ श्रीकर्मसिंहः पिताकार्षीच खंजनानाऽऽवलिरलं वर्धापनाऽन्यं विधिम् ॥२२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org