SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ गुरुगुणरवाकरकाव्यम् । नव्यं करोमि काव्यं गुरुगुणरवाकरं नाम ॥ ११ ॥ ये श्रीमज्जिनशासनार्णवसमुल्लासैकजैवाहका राजन्तेऽत्र युगे युगोत्तमगुरुपख्यमभावात्मकाः । स्तोष्ये हर्षवशादशेषसुदृशामिष्टार्पणमत्यलान् लक्ष्मीसागरगच्छनायकवरानेतान् गुणैरुज्ज्वलान् ॥१२॥ रवैरम्बुधिवद् गुणैर्बहुविधैर्येऽलङ्कृता पैरलं नाऽलं स्याद् नवितुं हि तान् मम मतिस्तन्वी समस्तानपि । एकस्तेषु विशिष्य यो विजयते सौभाग्यनामा गुणो वर्धिष्णुः सततं स्तुवे तदपि तं विश्वत्रयीविश्रुतम् ॥१३॥ येषां श्रीपुरुषोचमत्वसजुषां ताम्यत्तमोविद्विषां लक्ष्मीसागरगोत्रसंश्रितिरभूत तत्समतं सांपतम् । यबामस्मृतिमात्रतोऽपि परितः सर्वार्थसंपज्जुषामन्येषामपि बोभवीति भविनां मेषाद्भुतं भूतले ॥ १४ ॥ यत्कः पाश्चत्प्रतापः सवितुरतिशयी भूर्भुवःस्वःप्रकाशी येषामास्ते यशोऽपि पितुरभिनवं तामसध्वंस्यदोषम् । मुक्तापलेयेदीया गुणततिरधिका छिद्रमुक्ताऽपि तन्याधन्नृणां कण्ठकान्ति तदिह सुगुरवः केन तुल्याः स्युरेते॥१५॥ अथैषां श्रीगुरूणामुत्पत्तिस्थानदेशपुरपितृमात्रादिवर्णनम्अभ्युधद्विषयोत्रताऽतनुमहःपूरा शिवप्रश्रया या दीव्यनयनाऽय मानवमता रैमौक्तिकाऽलङ्कृता । धत्ते मर्त्यसुखाकरं भवहरं श्रीगूर्जरत्राना श्रीवाणीविलसद्विवेकपुरुषाऽऽश्लेषाद् वृषाख्यं सुतम् ॥ १६ ॥ तस्याः कोमलकाश्यपीशशिमुखीवक्षःस्थलालङ्कृतिग्रामः खर्मदमर्युमापुरमिति स्वाट्यालयादिश्रिया । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy