SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ २ श्रीसोमचारित्रगणिविरचितं ताराराज्यश्च सूरिप्रभृतिकृतिगुणा यत्त्वसंख्यर्षि चित्रं ज्योतिश्चक्रायते तत् प्रवचनमनघं यस्य वीरः श्रिये सः ||५|| सौपर्णेयोपमां ये निदधति विनतानन्दना विश्वरूपा Sऽधाराङ्गाऽधः कृताष्टापदनगवसवः स्वामिनः सत्कवीनाम् । नव्या - धामेहमेधाविधुतबहुविधाऽधर्मकर्मद्विजिहाः सर्वे सार्वाः श्रितानां ददतु दिततमः शर्मधर्मप्रकाशम् ||६|| स्वोद्यत्पादैस्तदाऽष्टापदजिदपि किलाऽष्टापदं यः पवित्री - चक्रे तैर्ज्ञानमात्मन्यसदपि च ददौ केवलं तापसेभ्यः । योगीन्द्रैरुज्ज्वलान्तःकरणसरसिजध्येय सन्नामधेयः श्रीलब्ध्यम्भोधिराशाः सफलयतु स वः श्रीगुरुर्गौतमाहः ॥७॥ स्तुत्या येऽमर्त्यतत्या बलविजयपरा नाकभाजः सुधर्माऽलङ्कारा गौरवर्णा वरविभवसुधाभ्रुक्सभाऽऽप्रभुत्वाः । इन्द्रायन्ते कवीन्द्राः किल सततममी भूभृतो रञ्जयन्तो यस्याः सान्निध्यतः सा कलयतु कविताकौशलं शारदा मे ॥ ८ ॥ ( स्रग्धराच्छन्दोनिबद्धं नमस्कारकाव्याष्टकम् ) चैतस्कामितमातनोति कृतिनां यत् स्मर्यमाणं यतः स्युर्देशेष्वखिलेष्वमी मुनिवरा मान्या यदादानतः । तनामाऽपि ततः सुरद्रुमसमं येषां जने गीयते तेभ्यः श्रीगुरुसोमसुन्दरतपागच्छाधिपेभ्यो नमः ॥ ९ ॥ श्रीजैनेश्वरधर्मनिर्जरतरुः काले कलावप्यसौ यद्वाक्सौघर सेन नित्यमधुना संसिच्यमानः सताम् । वाञ्छायोग्यफलानि यच्छति, तपागच्छाधिपाः श्रीयुतालक्ष्मीसागरसूरयश्विरमिमे मे सन्तु सन्तुष्टये ॥ १० ॥ श्रीलक्ष्मीसागरगुरुभाग्यादिगुणालिवर्णनवरेण्यम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy