SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ अर्हम श्रीविजयधर्मसूरिभ्यो नमः । श्रीसोमचारित्रगणिविरचितं गुरुगुणरत्नाकरकाव्यम् । श्रेयः श्रीधर्मवीजं विमलमतिबृहद्भारत क्षेत्रघायां येनोप्तं यद्युगादौ तदनु निजलसगोरसैः सिक्तमेतत् । मौटिं च प्राणि तज्ज्ञेः सुकृतगुरुगणैः स्वाऽऽश्रितेऽद्यापि दद्यादाघिव्याधिव्यपायं परमसुखफलं नाभिमूः स्तात् स सिद्ध्यै ॥ १॥ स्वामिन् ! शीर्ष ममर्क्षे मृगशिरसि समस्त्यक्षियुग्मं मृगाक्ष्यामेणाङ्के मेऽङ्गमास्ते तदनु मृगमदे नाभिरेतच्चतुष्कम् । प्राणेष्टं प्रापयैभ्यः किमिति कृतकृपं प्राक्कपोताऽऽवकं यं विज्ञीप्सुर्लक्ष्मलक्षाद् मृग इह भजते शान्तये स्तात् स शान्तिः ॥२॥ आवालब्रह्मचारी मधुररवकलापीनगत्यद्भुताङ्गः स्वामी सानन्तशक्तिः परमहितहरो - रागमानास्यहृद्यः । युक्तं ख्यातः शिवाङ्गोद्भव इह कुतुकं तच्च यच्छम्भुनाथः श्रीनेमिः शाश्वतं वः सृजतु सुखमसौ सन्नमद्दानवारिः ॥३॥ दृष्ट्रा यत्कायभासा समवसृतिरसां सर्वतो नीलवर्णा मर्वाणः सप्त भानोरिह हरितयवक्षेत्रविभ्रान्तिभाजः । साक्षात् तद्भक्षणाय स्फुटकपटधरा यद्वचोऽम्भव पातुं प्रापुः पायात् स पार्श्वप्रभुरभिनमतोऽभीष्टभर्तृप्रभावः || ४ || भानीवाऽऽभान्ति यस्मिन् मुनिनयनमिता धर्मचारित्रभेदातच्चान्युद्यद्ग्रा वा नव तरणिमिता राशयश्च व्रतानि । Jain Education International For Private & Personal Use Only - www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy