SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ जगद्गुरुकामावा नैतस्योपरि मुच्यते न मयका खं पादपद्म जिनैः __ सर्वत्रापि यतेविशेषयतना प्रोक्ता स्वकीयागमे ।।१६९॥ सूरीणामितिवाक्यसंश्रवणतः श्रीपातिसाऽकब्बर स्तद्वले खकरेण दूरविहितेऽधःकीटिकानिर्गमम् । रष्टा प्राप चमत्कृति गुरुगिरि प्रत्यक्षसंवादतः सर्वज्ञागम एव शुद्ध इति चार्हच्छासनास्थां पुनः ।।१७०।। शुद्धायां भुवि सधरमथ नृपः सञ्चारयंस्तान गुरुन् खस्वर्णासनसनिधि सुवचनैर्नीत्वाऽवदन्नीतिमान् । अत्रवोपदिशन्तु धार्मिकशिरश्चूडामणिस्वक्रम स्पर्शात्पावितमध्यमेतदपि च स्यादालवन्मे गुरो ! ॥१७१॥ आहुः श्रीगुरवः सुवर्णरजतस्पर्णी न कल्प्यः सदा भिक्षणामिति भूपते ! ननु मया तन्नोपवेश्यं विह । इत्युक्त्वा नृपतेरवग्रहमहादेशे पवित्रे स्थिता भास्वत्पण्डितशान्तिचन्द्रगणिराधन्यादिशिष्यान्विताः।।१७२।। तेषां भूमिपतिः पुरः स्थित इति स्पष्टं जगौ शुद्धधी ईम मुक्तिकरं वदन्तु मम भोः ! निर्दम्भवाक्यैर्मुदा। याहग् वाचायसन्ततो त्रिजगतीनाथेन सन्दर्शितो यादृक् संप्रति साधुभिश्च गृहिभि नैरनुष्ठीयते ॥१७॥ इत्युक्ते क्षितिपेन भिक्षुपतयः प्राहुर्जिनोक्तागम श्लोकोचारपुरस्सरं विशदया वाचा सुधासारया । धर्म साधुगृहस्थयोग्यमसमैः सत्त्वाधिकैः पालितं पाल्यं साम्प्रतबिन्दुमात्रमपितं सिद्धिप्रदं शुद्धितः ॥१७४॥ तद्धर्मश्रवणादनन्तरमसौ चक्रे परीक्षां नृपः सूरीणां पुरतः सुवर्णनिभृतं स्थालत्रयं मुक्तवान् । द्रव्याऽमूल्यकवस्त्रराशिममुचद् गृहन्तु यच्छन्तु वा ऽन्येभ्यश्चेत्यवदद्विनीतवचनः श्रीपातिसाऽकब्बरः ॥१७५।। प्राहुः सूरिवराम्तपोधनततेः कल्प्यं न चामीकरं द्रव्यं चान्यदपीह मोहजननात् संसारसंवर्द्धकम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy