SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ श्रीपद्मसागरगणिविरचितंभूपाकब्बरसंगमाय विहितोत्साहाः पवित्राशयाः ॥१६२|| आयाता इह नाथ! हीरविजयाचार्याः सुशिष्यान्विता इत्थं स्थानकसिंहवाचिकमसौ श्रुत्वा नृपोऽकब्बरः । खं सैन्यं सकलं फतेपुरपुरद्व्यूतषटान्तरा यातानामभिसम्मुखं यतिपतीनां प्राहिणोत् स्फीतियुक् ॥१६॥ पुत्रैरेव निखिभिः पस्कृितस्तस्थौ नृपः पर्षदि म्लेछाः काफर एष जात इति मा कुर्वन्तु हत्खोदिताम् । ध्यात्वैवेति न राज्यसंभवमदाद्यचादृशानां तथा सर्वेषामनुवर्तनं न च मदः खनेऽपि संपत्तिजः ॥१६४।। तत्सैन्यैहयहस्तिवीरपदिकरावेष्टिताः सर्वतः श्रीसूरिप्रवरास्तदीयवदनाम्भोजेक्षणप्राथिभिः । ब्रह्माण्डोदरपूरकारवभरेषूद्दामवाघेष्विभ स्कन्धारूढसहस्रसंख्यमनुजाभ्यास्फालितेषूचकैः ॥१६५।। श्राद्धीभिश्च पदे पदे निजकरप्रोच्छालितेषूलसन् मुक्ताराशिषु सर्वलोकबनितावर्गेण संनिर्मिते । रूप्यन्युन्छनके विशिष्टवनिताक्लमेषु गीतेष्विह प्राप्ताः श्रीमदकब्बरौकसि तदा फत्तेपुरान्तःस्थिते ॥१६॥ ॥ युग्मम् ॥ खौकोद्वारि समागतान यतिपतीन् दृष्ट्वा नृपोऽकब्बरः पुत्रैः स्खैः सममेव संभ्रमवशादुत्थाय सिंहासनात् । अभ्यागत्य ननाम तेन विधिना येनैष विस्तदा श्राद्धः प्राचि भवे बभूव मनसीत्याशङ्कितं तार्किकैः ॥१६॥ चङ्गाहोगुरुजीतिवाक्यचतुरो हस्ते निजे तत्करम् कृत्वा सूरिवरान्निनाय सदनान्तर्वस्त्ररुद्धाङ्गणे । तावछ्रीगुरवस्तु पादकमलं नारोपयन्तस्तदा वस्त्राणामुपरीति भूमिपतिना पृष्टाः किमेतद् गुरो ! ॥१६८।। आहुः सूरिवरा नरेन्द्र ! वसनाधःकीटिकाद्यङ्गिनां पीडा मत्क्रमजास्तु मेति हृदये धीः स्याद्ययनतः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy