SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ श्रीपद्मसागरगणिविरचितं संगृहन्ति न तस्य खण्डमपि ते स्म व्यक्तलोमास्तदा ॥१४॥ तेषां निःस्पृहचेतसां नरवरः शुद्धोपदेशं तदा श्रुत्वा कौलिकनायकः पशुवधस्तैन्यादिदुष्कर्मणाम् । प्रत्याख्यानमनन्तसौख्यकरणं चक्रे स्वभृत्यैः समं सन्तो दुष्कृतवर्जका निजगिरा स्युर्दुष्कृतध्यायिनाम् ॥१४९॥ भूपं कौलिकचक्रमादृतमहाधर्म विधायोचता श्वेलुस्तन्नगरात् सुहीरविजयाचार्या विहारक्रमात् । सीरोह्यां जिनचैत्यसन्ततिजितवर्नाथपुर्या गताः पुर्या भावुकलोकनेत्रयुगलानन्दप्रदास्याम्बुजाः ॥१५॥ तत्र श्रीसुलताननामनृपतिः श्रुत्वा तदीयागमं पुर्या घोषणमित्यकारयदहो हट्टे गृहे मण्डनम् । खे खे यो न करिष्यति प्रणयतः श्रीमद्गुरोरागमे __ दण्ड्यो मे भविता स सर्वविभवध्वंसस्तु तस्यागतः ॥१५१५ श्रुत्वैवं सुगुरुप्रवेशमहसे चक्रुर्जना मण्डनं धाम्नां हट्टततेरिवात्ममनसां द्रव्यन्यवाद्वर्णकैः । मातङ्गांश्च हयान् विशिष्टरचनान् कृत्वा नृपोऽभ्यागतः पौरैर्निर्मलभूषणैः सममसौ तेषां पपात क्रमे ॥ १५२ ॥ पादाभ्यां नृपतिर्गुरोः पुर इव प्रेष्यश्चलन् भक्तितः पुर्या कारयति स्म दत्तविभवोऽर्थिभ्यः प्रवेशं तदा । श्राद्धानां हृदयेऽभवद्धरिकृतश्रीनेमिनाथागम प्रोदामोत्सवराजिराजिततरश्रीद्वारिकापूःस्मृतिः ॥ १५३ ॥ तत्रार्हत्सदनेषु बिम्बनिवह रूप्याश्मचामीकरा रब्धं सूरिवराः प्रणेमुरनिशं राजेभ्यवर्गान्विताः। व्याख्यान्ति स्म च जैनवाङ्मयरसं राजादिसभ्याप्रतो राजनीभिरनेकयुक्तिरचनोद्यन्मौक्तिकस्वस्तिकाः ॥ १५४ ॥ स्थित्वा तत्र कियदिनानि सुकृतप्राग्भारसंवर्द्धनं कुर्वन्तः पुरतस्ततोऽथ चलिताः सूरीश्वराश्चर्यया । प्रामाऽनेकपुराणि पावितमहीपीठानि नित्याक्रमा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy