SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ जगद्गुरुकाव्यम्। तावच्छ्रीजयमल्लभूपतिरसौ भूमौ पतभित्लवक् __ भो वीराः ! अथ यास्यतीव कुसुतो हस्तादयं पर्वतः । तस्माम्मन्मुखदर्शिनो धनजनानत्राधिरूढानिजं __ स्थानं साधु नयन्तु मार्गकरणेनात्मीयदोर्वीर्यवः ।।११३।। जल्पन श्रीजयमल्लभूपतिरिति प्राप्तस्तदा पञ्चतां लोकास्तत्र घनाः स्थिता निजनिजश्रीदेवसेवापराः। वीराः श्रीमति चित्रकूटनगरद्वारेऽसिकुन्तग्रहा निनन्तोऽभिपतटावलिशिरांसीवाममृगोलकान् ॥११४॥ भूपाकब्बरनुन्नवीरनिचयाः सद्योऽधिरूढा गिरौ हत्वा श्रीजयमल्लभूपतिभटानिर्नायका यत् कुतः । जीवन्तो जयिनो भवन्ति च तथा वीराधिवीरामतः प्रायः स्वामिदशानुसारिबलिनः स्युः सेवकाः सर्वदा ।।११५।। वीरैस्तत्र वृतोऽप्यकब्बरतृपोऽभ्यारूढ उचैरिव व्योम्न्यर्कः प्रवलप्रतापकलितः कोपोद्धरस्तन्नृषु । आदेशं स वधस्य मुद्गलततेः शीघ्रं ददौ यन्नरः कोपात् किं न करोति वक्ति च हृदन्धीकारकत्वस्पृशः॥११६॥ भूपाकन्वरवाक्यमाप्य सुभटा दुष्टास्तथा चक्रिरे तत्राऽभूद्भुवि शोणितोदकनदीपूरं यथा सर्वतः। तत्र स्थातुमशक्त एष नृपतिर्नीचैततोऽप्युत्तरन् मार्गस्थां च विदारितोदरतलां निष्फातिताऽङ्गोद्भवाम् ।।११७|| दृष्ट्वा सुन्दरसुन्दरी नरपतिः कारुण्यपूर्णस्तदा हा हा किं मयकाऽत्र कारितमिदं चण्डालकर्माधिकम् । कुर्वश्चानुशयं शिरः करयुगेणास्फालयभित्यवक् __ यः पापं किल चित्रकूटरचनं गृहाति तस्याप्यहम् ।।११८।। एनं देशपुरान्वितं गिरिवरं स्वर्णादिकं चार्पया मीत्याकर्ण्य नराऽधमोऽथ जगृहे कश्चित्त्वघं मुगलः । तहत्तं च गिरीश्वरं पुरवरमामाद्युपेतं तदा लोभात् किं न नरः प्रपद्यत इह स्वाम्युक्तवासभयम्॥११९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy