SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ जगद्गुरुकाव्यम्। १५ एवं तर्कपरस्य तस्य नृपतेर्मार्गे समागच्छतः पार्श्वे श्रीजयमल्लनामनृपतितं तदा प्राहिणोत् । दूतोऽप्याख्यदिदं महीश! नृपतिश्रीराणभृत्यान्तिमो मद्वक्त्रे जयमल्लभूपतिरिति खां ख्यापयत्युत्कटः ॥ ९९ ॥ त्वं चेद्रूपहमाउनन्दन इति ख्यातोऽसि तत्रि मे वक्त्रं दर्शय चेन्न तर्हि रुचिते स्थाने बजान्यत्र वा। वद्भक्तिं च विधातुमत्र विभुनाराणेन संस्थापितः प्रेष्योऽहं परमेश्वरस्य तदनु श्रीराणभूस्वामिनः ॥ १०॥ दूताख्यातमिदं निशम्य नृपतिः पूर्व ततोऽत्रापतत् कोट्टे पर्वतमस्तकस्थितमसौ श्रीचित्रकूटाभिधम् । दध्यौ वीक्ष्य हृदीति किं सुरगिरिः किं वैष कैलासको __ वैतान्यः किमु किं हिमाचल इव श्रीरोहणाद्रिः कथम् ॥१०॥ एवं तर्कपरोऽपि सत्त्वजलधिस्तद्भचनायोद्यत श्चक्रेऽकब्बरभूपतिर्घनतरोपायान् भटप्रेरकः । उच्चैःस्थो जयमल्लभूपतिरमुं वाणिज्यकारोपमं चित्ते चिन्तयति स्म नृत्यमनिशं पात्रैस्तदाऽकारयत् ॥१०२॥ वीरास्तत्कपिशीर्षकेषु सबला भूपेन संस्थापिता वर्षन्तो विविधाश्मलोहनिबिडानाणीव मेघाश्छटाः । चित्रं मुद्गललोकधान्यविषयं दुष्कालनीतिं तदा ___ चक्रुः कोट्टमहीतले च विजयव्यासङ्गसौभिक्षकम् ॥१०॥ सामान्योऽपि जनस्तदा धनिबलात् कोट्टोर्द्धभूमौ स्थितो धिक्कारं वचसा विधाय मुमुचे यत् प्रस्तरार्द्धार्द्धकम् । तत् सैन्येऽजनि मौद्गले हरिकरव्यामुक्तवजोपमं तेजस्विन्यधिपे दिवाकर इवाहःसन्निभाः सेवकाः ॥१०४॥ एवं श्रीजयमल्लभूपसुभटश्रीचित्रकूटाचल त्राणार्थ स्वकरद्वयं खरतरैः शनैर्न शून्यं कृतम् । वक्त्रं मुद्गलनाथधिक्कृतिकृते दुष्टैर्वचोभिर्जनः । सामान्यैरपि चित्रकूटनगरान्तर्वासिभिः सादरम्॥१०५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy