SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ भीपद्मसागरगणिविरचितंर्यदत्ताः खसुताः खराज्यविभवक्षेमाय नाभ्यर्थितैः। एतावत् समयं प्रतीक्षितमिहाप्यर्थेन तद्युक्तिम द्यत्त्वं दक्षतमोऽसि योग्यसमयज्ञानाय किं कथ्यते ? ॥ ९२॥ राणोऽप्याख्यदिदं कुलस्थितिरियं मे पूर्वजैः पालिता __ यन्म्लेच्छाय न दीयते निजसुतेत्युल्लङ्घयते नो मया । देशो यातु गजाश्च यान्तु विभवध्वंसोऽस्तु मे पर्वते वासोऽप्यस्तु कुलस्थितिः पितृकृताप्येकैव मे तिष्ठतु ॥ १३ ॥ ॥वदुत्तम् ॥ लब्धां गुणोघजननी जननीमिवार्या मत्यन्तशुद्धहृदया अनुवर्त्तमानाः । तेजखिनः सुखमसूनपि सन्त्यजन्ति सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् ॥ ९४ ।। मन्त्र्याख्यन नृपराण! यन्निजसुतादाने हठः सांप्रतं वाक्यं वादयतीह तादृशफलं तत्तेऽचिरादास्यति । यद्यद्भावि तदप्रतो निजमुखात् प्रायेण निष्काशये देवं प्रोच्य गतः प्रधानसचिवश्वाकब्बरस्यान्तिके ।।९५|| उक्तं तस्य पुरो यथार्थवचनं राणोदित मन्त्रिणा सन्तोऽपीष्टमनिष्टमप्यवितयं कुर्वन्ति वाग्गोचरे । तद्वाक्यश्रवणादनन्तरमसौ फत्तेपुरानिर्गतः सैन्यैः सारतरैर्वृतो गिरिशिरःकोट्टादिभङ्गोद्यतैः ॥९६।। वस्याऽभ्यागमनश्रुतेर्निजपुराद्राणो धनाद्यं निजं लात्वा कुम्भलमेरुकोट्टमभजन प्राचं न वीरोत्तमैः । सामन्तो जयमल्लनामनृपतिः श्रीचित्रकूटेऽचट योद्धं म्लेच्छबलैः समं खरभटस्तन्मार्गमध्यस्थिते ॥९॥ तं वृत्तान्तमकब्बरक्षितिपतिः शुश्राव मार्गे वहं. श्चित्तेऽचिन्तयदित्यशेषसुभटः किं चित्रकूटाचलः । पूर्व प्राहा उतैष कुम्भलगिरिः श्रीराणभूपाश्रयस्तभृत्यो जयमल्लभूपतिरसी मन्मार्गवक्त्रे स्थितः ।। ९८ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy