SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ श्रीपद्मसागरगणिविरचितं नेशुचारकसंस्थितो नरभरः प्राप्नोति यद्वारकम् । यावत्तावदकब्बरो लघुवया अप्युग्रतेजः स्फुर नश्रौषीत् स्वपितुर्मृतिं निजभटत्रासं च दस्यूदयम् ॥ ७८ ॥ शोकं स क्षणमात्रमात्मकुलजैः कृत्वा समं काबिला - पुर्याः पञ्चशतीभटैः परिवृतः सद्यः समाजग्मिवान् । स्वं बन्धुं च निवेश्य तत्र नगरे शिक्षाविधानोद्यतं तेजो यत् सहते न वैरिकुलजं वीराधिवीरः परम् ॥ ७९ ॥ श्रीमल्लाहुरनाम्न्यऽपूर्व नगरे सैन्याय तत्त्रासतो ऽत्रायाताय नरेश्वरोऽमिलदिवाऽकाण्डेऽभिमन्युक्षये । पार्थो धिक्कृतिकारकः कथमहो नश्यद्भिरत्रागतं श्रीमद्भिर्न मृतं निहत्य सकलान् सौरान् भटानित्यवक् ॥ ८० ॥ ते ऽप्यूचुः सुभटास्त्वदक्षियुगलस्यामे वयं तान् धुवं इन्तुं सज्जकरा खेरिव तमांस्येषोऽरुणो नान्यथा । एवं तान् वदतो वचः कुशलतावेदी भृशं सत्कृतांचक्रेऽकब्बर भूपतिर्निजबलाऽवज्ञातदैत्याधिपः ॥ ८१ ॥ तत्र द्वादशवार्षिकोऽपि नृपतिस्तत्सैन्यवीरावृतः सौरे सैन्यभरे समापतदिवागस्तिः सरिनायके । चित्रं तद्भटशेोषमेष विदधे स्वाहाक्षर श्रावणात् स्वं सैन्याभृतवारिधिं जयरसापूर्ण पुननिर्ममे ।। ८२ ॥ भ सौरवलं गतं यमगृहे किञ्चिद्विरेहरे किश्चिद्वारिनिधौ वनेऽतिगहने किञ्चिन्न किञ्चित्करम् । जातं वीक्ष्य पुनर्निजं नरपतिर्लब्धर्द्धिहस्त्यश्वकं प्रत्येकं स्वभटेषु चक्रितुलनां मेने जयावाप्तितः ॥ ८३ ॥ लब्धोऽनेन जयो नृपेण विशदो यस्मिन् महीमण्डले तस्मिन् यावनभाषयाऽक्षरवरं फत्तेपुरं वासितम् । कृष्णेनेव विशालसुन्दरगृहं श्रीद्वारिकानामकं भूपानां स्थितिरेषकैव हि जयस्थाने पुरस्थापनम् ॥ ८४ ॥ राज्यं तत्र करोति लब्धविजय: श्री पातिसाकब्बरः १२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy