SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ जगद्गुरुकाव्यम् । वेवं वर्षदनेकशस्त्रनिकरेष्वेकोऽपि कश्चिद्वले। सौरेऽभून भटः पटुः स्फुटकणेर्यो जर्जरश्चेषुभि स्तत्किं ध्वान्तमिहाऽस्ति यद्रविकरै! भिद्यतेऽत्युज्ज्वलै:?॥५॥ भग्नं सौरबलं विमुच्य सकलं वित्तं गजाश्वादिकं नष्टं दिक्षु विदिक्षु निःस्वतुषवत्फूत्कारसाध्यं गतम् । देशं तस्य विभुत्वमश्वनिकर स्वर्ण मणीन् हस्तिनः ___ कोशं वा जगृहे हमाउसुभटणिः स्वनाथाज्ञया ।। ५८॥ नष्टे सूरनृपे तदीयसुभटान् कृत्वा खसेवापरान् निर्दण्डान् सुखिनश्च देश्यमनुजानिर्भीतिराज्यं दधौ । दिल्लीकाबिलमार्गसञ्चरदिभाश्वोक्षोष्ट्रमानुष्यकं मुक्तारनसुवर्णराशिरचितोत्तुङ्गाद्रिकोट्यालयम् ॥ ५९ ।। किं चाऽस्मिन् समये विशिष्टमनुजे श्रीगूर्जरे मण्डले भूभुग् बादरसंज्ञितः करिबलः षड्लक्षसैन्योद्धरः । सामुद्रानपि भूपतीनिजपदाम्भोजन्मसेवोद्यतान् कुर्वन्मालवदक्षिणोत्तमपतिश्रेण्यर्चितश्चाभवत् ॥ ६ ॥ अन्याः स च मेदपाटधनिकं श्रीरत्नसिंहं रणे जित्वा तनगरं बभन्न हठतः श्रीचित्रकूटाभिधम् । तत्र क्षत्रियपुत्रिकाततिरभूद्वहिप्रवेशाद्गत प्राणाश्चापरमानवा भटचयव्यापारितास्त्रात्तथा ॥ ६१॥ तदुःखादसमाधिवासितहृदा श्रीरत्नसिंहक्षमा पालेनेति हमाउभूमिपतये विज्ञप्तिराविष्कृता। साहाय्यं कुरु मे तथा नरपते ! दुष्टं यथाऽन्यायिनं बध्वा बादरनामकं करतले देहि क्षमस्त्वं यतः ॥ २ ॥ तस्याभ्यर्थनयेति काबिलपतिः सैन्यावृतो बादर क्षोणीशग्रहणाय बद्धकवचः सद्यश्चचालोद्धतः । दिल्लीतस्तृणवञ्च गूर्जरभटांश्चित्ते निजे कल्पयन दोर्वीर्य निजमग्निवद्धरिहरब्रह्मादिवीर्याधिकम् ॥ ६३ ॥ यावच्छ्रीमति चित्रकूटनिकट दिलीपतिश्चागत Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy