________________
जगद्गुरुकाव्यम्। खैरं द्रव्यशतानि सार्द्धघटिकामध्येऽत्ति भोगैर्धनैः ।। ४२ ।। आसीत्तत्र हमाउनामनृपतिर्दैत्यावतारोऽरिषु
म्लेच्छानामाधिपः प्रतापतपनश्चक्रीव युद्धे जयी। यस्याश्वा इव राक्षसा गिरिशिरःस्फालाः प्रलम्बानना
स्वासं हस्तिवरानपीव महिषामित्यं नयन्ति क्षणात् ॥ ४३॥ अन्येयुःस सुतेऽष्टवर्षवयास स्पष्टोदयेऽकब्बरा
भिख्ये राज्यभरं निवेश्य चालितः कर्तु महीमात्मसात् । अब्ध्यन्तां प्रलयाब्धिसैन्यकलितस्तावत् समेतः पुरे
दिल्लीनानि भटालिदुर्घटतटे कोटीश्वराभ्याश्रिते ॥४४॥ तत्राभून्नवलनवाजिसुभटः सूरः प्रतिष्ठानपो
मत्तेभद्विचतुःसहस्रगुणनः कोटयुप्रपत्तीश्वरः । युद्धे येन च राष्ट्रकूटकुलभूः श्रीमल्लदेवो जितः
श्रीमद्योधपुरेश्वरो मरुपतिदुर्वारवीरावृतः ॥ ४५ ॥ तस्मै सूरनरेश्वराय निपुणं दूतं तदा प्राहिणो
च्छ्रीमन्मुद्गलनायकः परिसरे स्थित्वा सुनीति वहन् । दूतोऽप्याऽऽख्यदिदं हमाउनृपतेः पादप्रणामं कुरु
श्रीदिल्लीश! भवाहवाय सुतरां सज्जोऽथवेतो ब्रज ।। ४६ ।। श्रुत्वा दूतवचोऽवदन्नरपतिः सूरोऽतिगर्वोद्धरः
कोऽयं मत्पुरतो हमाउनृपतिर्वाणिज्यकृद्धम्भ्रमी। दत्त्वाऽश्वांश्चिरसञ्चितान्मणिगणान् स्वर्ण च रुप्यं वशा
वीराणां च शिरांसि यास्यति वपुःशेषः सुशेषाभवन् ॥४०॥ याहि वं वद दूत ! मद्वच इदं तस्मै निजस्वामिने
भूयाः सज्ज इहाहवेऽहमनुगस्तेऽभ्यागतः सांप्रतम् । इत्युक्त्वा गलहस्तदानमकरोहूतस्य सूरो नृपः
कोपो यत्स्वविनाशकारिसमये दुष्टं विधिं कारयेत् ॥४८॥ दूतस्तद्वचनं स्वलाघवकृति स्माख्याति तन्मत्ततां
श्रुत्वा काबिलनायकोऽपि हृदयेऽप्युल्लासमुच्चैर्दधौ । नोभीति निजबाणवीर्यचकितं जाननदृश्यं हरिं
किं पर्जन्यविगर्जनश्रवणतो बिभ्यति पाय:पतिः ॥४९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org