SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ जगद्गुरुकाव्यम् । श्चक्रे वाचकसंहितं पदमुदारानेकसभ्याग्रहात् । शिष्यं योग्यमवाप्य चेन्न पदवीमारोपयेद्यो गुरुः __ स स्यात्प्राज्यभवभ्रमी निजगुणध्वंसी गुणोपेक्षणात् ॥ २८ ॥ गच्छैश्वर्यमथ प्रदातुमनयोर्मध्ये विशेष गुरु जिज्ञासुर्जिनशासनामरमसावाराधयत् साधनात् । मन्त्रस्योत्तमगच्छनाथजपनार्हस्याघविष्वासनः षणमासीतपसा विमुक्तवचनव्यापारदीप्तिस्पृशा ।। २९ ।। ध्यानाकृष्टतया ततोऽमरवरः सद्यः समाजग्मिवा नत्वा पादपयोरुहं गणपतेराख्यद्विशिष्टं गुणैः । श्रीहीरं गुरुपतिभूषणकरं राजप्रबोधोदितं व्यक्तं भाविनमत्र सूरिपदवीयोग्ये तपाख्ये गणे ॥ ३० ॥ दैवं वाक्यामिदं निशम्य मुमुदे श्रीमत्तपागच्छराद् मोदः कस्य भवेन्न यत् स्वपदवीयोग्ये सुशिष्ये श्रुते । मुक्त्वा ध्यानमथागमन्निजयतिश्राद्धौघपर्षद्यह वक्त्रे भानुरिवोदयाऽद्रिशिरसि प्रोल्लासितेजःस्थितिः ॥ ३१॥ सङ्घा सुरवाक्यमेतदभवच्छ्रीमदगुरूगौरवात् ___ सङ्घो यज्जिनसमतो गुरुतरैनोंपेक्ष्यते बुद्धिमान् । कृत्वा सङ्घमतं न्यवेशयदसौ श्रीहीरहर्ष निजे . पट्टेऽर्हन्मतसारसूरिपदवीयोग्ये मुहूर्ते सुधीः ॥ ३२ ॥ सीरोहीनगरे बभूव विजयो हीरादतस्तद्गुरु र्नामास्याशु चकार हीरविजयं सद्भिस्तदा स्वीकृतम् । इभ्यैः सूरिपदोत्सवस्तु विविधश्चक्रे तथेन्द्रर्यथा ___ श्रीवीरेण सुधर्मगौतमशिरःपट्टप्रदानक्षणे ॥ ३३ ॥ आचार्यैः सममेतके गुरुवरादेशात्ततः प्रस्थिता आयाता अणहिलपत्तनपुरे तस्थुश्चतुर्मासकम् । पोता अम्बुनिधाविवोडुपभरै डे यथा पक्षिणः स्वापत्यैर्मुनिचक्रसेवितपदाः संसारलेपोज्झिताः ॥ ३४ ॥ गूढाम्रायजिनोक्तवाङ्मयरसं श्रीहीरकोष्ठे गुरु ाघ्रीदुग्धमिव प्रकृष्टकनकामोऽनिशं क्षिप्तवान् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy