SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ श्रीपद्मसागरगणिविरचितं धृत्वा पञ्चमहाव्रतानि समितिमोदामगुप्त्यङ्किता न्येष प्रोद्धृतमेरुमानवमहीसाम्यं क्षमातोऽभजत् । साधूनां विविधैर्गुणैधुरि तपःकृत्येऽभवद्धौर्यवत् शाकट्येऽध्ययने च देवगुरुवदर्भाप्रबुद्धिमुनिः ॥ २१ ॥ विद्यासागरवाचकस्य गुणिभिः शिष्यैर्वयोधीसमैः सार्द्ध सद्रतिधर्मसागरवरैः श्रीमद्गुरोरप्रतः । सम्यग् व्याकरणं कवित्वरचनाग्रन्थांस्तथाऽहन्मत न्यायं कर्मविचारसंग्रहणिकां स्माध्येति हीरो मुनिः ॥२२॥ सर्वार्हन्मतशालपारमगमच्छ्रीहरिहर्षो मुनि र्जातोऽन्यागमदर्शनोत्सुकमनाः श्रीमद्गुरोर्नीतिवित् । सार्द्ध धर्ममुनीश्वरैरिति गिरा विज्ञप्तिकामातनोत् __ स्वामिन् ! मेपरशासनागमवचोयुक्तिप्रकाशे ममः ॥ २३ ॥ श्रुत्वेत्याह गुरुस्ततो ब्रज मुने ! श्रीदक्षिणाशां प्रति योग्यं धर्ममुनि सहायमधुनवादाय रामो यथा । श्रीमल्लक्ष्मणमन्यशास्त्रपठनं तत्रान्यपाधै कुरु स्पष्टाः स्वागमयुक्तयो हि धनिनां तत्रैव तद्वादिनः ॥ २४ ॥ लब्ध्वाशामिति सद्गुरोः कविवरः श्रीहरिहर्षो मुनिः सार्द्ध धर्ममुनीश्वरेण चलितः श्रीदक्षिणाशां प्रति । गत्वा देवगिरौ सदाऽऽस्तिककृतद्रव्यव्ययाट्टतो मण्याद्यागमयुक्तिपाठमनघं प्रारब्धवानादृतः ॥ २५ ॥ प्रन्था न्यायविदां विवेचनकृतां वैशेषिकाणां पुन भट्टस्याऽपि तथागतस्य कपिलप्राभाकराणां पुनः । मीमांसाद्वयवादिनामपि परब्रह्मादयोत्संविदा भट्टात्पण्डितचक्रिणोऽत्र पठिता: श्रीहीरहर्षेण ते ॥२६॥ सार्द्ध धर्ममुनीश्वरेण सकलपन्थार्थपारङ्गमी भूत्वा श्रीगुरुसनिधौ पुनरगात्तत्स्तोत्रपाठे पटुः । शिष्याणां हि गुणार्थिनां चिरतरं बूरे गुरोर्न स्थितिः सिद्धेऽर्षे तु गुरुर्न शिष्यमनघं दूरे व्यवस्थापयेत् ॥ २७ ॥ योग्यवं गुरुरेतयोनिजधिया विज्ञाय शास्त्रश्चियो. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy