SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ २ श्रीपद्मसागरगणिविरचितं यस्याः शीलगुणेन नागरजनैः सीता स्मृतिं प्रापिता शृङ्गारैः कमला धिया भगवती रूपेण कामाङ्गना ॥ ६ ॥ सा सौख्यं विषयोत्थितं निजपतिप्रत्तं मयूरी यथा वाहार्पितमम्बु शोकरहिताऽप्यास्वादयन्ती सती । सिंहस्वप्रमवाप्य पुत्रमनघं गर्भेऽवतीर्णे निजे मेने पूरितदोहदे हित फलप्राप्तेः स्वभर्तुर्गिरा ॥ ७ ॥ साऽसूतान्यदिने सुतं दिनकरं पूर्वेव तेजस्विनं हंसी हंसमिवेन्दिरेव मदनं स्कन्दं पुनः पार्वती । यज्जन्मन्यभवन् प्रसन्नवदनाः काष्ठा गृहान्तः स्थिता दीपाः कान्तिविलोपका र्मकमया मन्दाः पतद्वृत्तयः ॥ ८ ॥ वप्ता तत्र ददर्श बालमनघं विज्ञो यथा देवराट् जातं तीर्थकरं सुलक्षणतया चक्रे विचारं त्विमम् । दुष्टैस्तावदभेद्य एष भविता हीरो यथाऽमूल्यकस्वद्धरेत्यभिधानमस्त्विति कुटुम्बामेऽवदन्मोदतः ॥ ९ ॥ हीर: कुंरगृहाङ्गणेऽथ ववृधे कल्पद्रुमस्ताविषे विन्ध्याद्राविव कुञ्जरो मणिगणः श्रीरोहणे पर्वते । चन्द्रः पक्ष इवाऽमले च कमले कोशः शुचावम्बुदः कन्दोऽम्भोधितले प्रवालज इवाऽर्हद्धानि धर्मक्रमः ॥ १० ॥ हीरोऽध्यापकद्भतानि सकलान्यादत्तवान् बुद्धितः कुंरस्तस्य ददौ च कावनचयं हीराङ्गभारप्रमम् । विद्याप्राप्तिरिह त्रिधा हि विनयैरर्थैः पुनर्विद्यया जानन्नीतिमिमां विचारचतुरः सर्वोचितार्थप्रदः ॥ ११ ॥ हीरो द्वादशवार्षिकोऽमवदथ स्पष्टैर्गुणैर्दक्षतौ दार्याद्यैर्गुणवत्सु भारतमुनि प्राप्तकरखः परम् । लोकानां नयनेषु रूपकमलारेखा अनेका ददौ बुद्ध्यानन्त्वमशेषरोचकतया चित्तेषु चाश्चर्यतः ॥ १२ ॥ अन्येद्युर्नगरानिजात् स्वममिनी गेहे समाजग्मिवान् श्रीमद्गुर्जरपत्तने कविजनैः स्वःखण्डताख्यापिते । हीरस्तत्र मुनीश्वरान् विजयतो दानाऽभिधानान् मुदा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy