SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ अहम् श्रीविजयधर्मसूरिभ्यो नमः । श्रीपद्मसागरगणिरचितंजगद्गुरुकाव्यम् । नत्वा श्रीबलिजं जिनं जयकरं श्रीपार्श्वनाथं पुन__यात्वा श्रीत्रिपुरां त्रिलोकमाहितां सद्बुद्धिसिद्धिश्रियम् । काव्यं वक्ति जगद्गुरोः शिशुरसौ भावाऽवनम्रस्त्रिधा हीराइस्मृति पद्मसागरकविः सौराष्ट्रराष्ट्रस्थितः ।। १ ॥ जम्बूद्वीपभुवो विभूषणतरे क्षेत्रे वरे भारते स्वर्णस्थालतलस्य दीपक इवोद्यन्मोदकक्षोदके । अस्ति स्वस्तिगृहं द्विषोडशसहस्रोदामदेशोल्वणं खण्डं मध्यममुत्समैनरवर ज्यं सदाज्यानवत् ॥ २ ॥ देशस्तत्र च गूर्जरोऽजरजनः स्वर्वत् सुवर्णान्वितो गीर्वाणाऽचलवद् गुणादरकरः कामं धनुर्धारिवत् । साध्वीसाधुविशेषसंयमसुखः सद्गच्छवच्छ्रीयुतः शश्वत् केशववद्विचित्ररचनः शृङ्गारवद्राजते ॥३॥ श्रीप्रहादननामकं पुरवरं तत्राऽस्ति यत्रैधते श्रीप्रह्लादनपार्श्वनाथसदनं चक्रेशसैन्यं यथा । सद्रनाऽक्षतपूरपूर्णनिधिकं चित्राङ्गमातङ्गजो दाराश्वं च पुरोहिताङ्गसचिवं वीराधिवीराश्रितम् ॥ ४ ॥ कुंरस्तत्र वणिक्कलासु निपुणः सम्यक्तपूतोऽभव दोकेशान्वयभूषणं धनवतां मध्ये प्रतिष्ठां गतः । जिग्ये येन सितोदरः पटुधनैर्वर्गत्रयीसाधन नों चंदेष ततः कथं नरपुरे नामाऽवशिष्टोऽधुना ? ॥ ५ ॥ नाथी तस्य पतिव्रता कुलवधूधर्मोदिता सुन्दरी गेहं भूषयतीव कल्पलतिका मेरुं सुपर्वोत्सवम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy