________________
६२
श्रीसोमचारित्रगणिविरचितं
तदागमंस्तत्र निशम्य सद्यः ।। ६५ ।।
धारोज्जयिन्यादिबृहत्पुरास्थास्त्वन्येऽपि धन्या बहवस्तदानीम् । स तदीये मिलिता महेभ्याः सिन्धुप्रवाहा इव वार्धिमध्ये ॥ ६६ ॥
( युग्मम् )
ततो महेन्द्रीतटवागडादौ
स मालवीयः सकलोऽपि सङ्घः । सर्पन् प्रतिग्रामपुरं जिनेन्द्र
स्नात्रादिपुण्यं प्रथयन् हितार्थम् ॥ ६७ ॥ कुमारपालादिककारिताई
त्प्रासाद सौधर्द्धिविधूतनाकम् ।
श्रीराजदेशाभरणं समागादीयद्दरं नाम पुरं क्रमेण ॥
Jain Education International
६८ ॥
( युग्मम् )
अथास्य समग्रसङ्घस्य वर्णनम् - किं सार्थवाहो बहुवस्तुशस्तः किं वा सुरत्राणबलं विशालम् १ । इत्यात्रजन्तः कति यत्र लोका
दूराद् यमालोक्य विकल्पयन्ति ॥ ६९ ॥ यस्मिन् महेशान् बहुशो वृषस्थान सतीगणांश्चाऽद्विपतिर्निशम्य । तान् द्रष्टुमागात् सितशृङ्गसङ्गी गुरूदरालीव्यपदेशतोऽसौ ॥ ७० ॥ पटादिकुट्यौद्यघनाभ्रपङ्कया
For Private & Personal Use Only
www.jainelibrary.org