________________
गुरुगुणरत्नाकरकाव्यम् । श्रीवस्तुपालादिवदान्यमौलि
वाश्चर्यकृद् भास्यति रत्नवद् यः। दानादिपुण्यप्रथयेति मत्वा
रत्नाभिधां यस्य विधिय॑धत्त ॥ ४९ ॥ सदंशजं चापनिभं गुणाढ्यं
यमाश्रयद् मार्गणमालिकारम् । आसाद्य सारं सुखभोगमस्माद्
महीधरानप्यधरीकरोति ॥ ५० ॥ यो धान्यदानाजगडूपमानः
श्रीसङ्घभत्या जगसीसमानः । द्रव्यव्ययी पेथडवद् वृषार्थ
सारङ्गवद् बन्दिविमोच्ययाऽऽस्ते ॥५१॥ तेष्वादिमस्याऽऽस्तिककुञ्जरस्य
तस्याऽथ रवस्य मनस्युदारे । श्रीतीर्थयात्राकरणाय कामं मनोरथः प्रादुरभूद् महीयान् ॥ ५२ ॥
(पञ्चभिः कुलकम् ) ततोऽर्थिवीथीपृशुदौःस्थ्यदावो
पशान्त्यमोघाऽनपदाननीरैः। मेघेन मेघप्रतिमेन साकं
सालोचयामास निजाऽनुजेन ॥ ५३॥ स्वजामिमाणिक्यिविवोदुरप्ये
तज्ज्ञाप्यते भोः! जयसिंहसाधोः । मेघोऽपि रत्नं प्रति हृष्टचेता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org