SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ गुरुगुणरत्नाकरकाव्यम् । ४७ मुदिता ववन्दिरे ते यान् गुरुराजान् सवैनयिकम् ।।८४॥ परदेवाहार्यमहामहार्तिहर्ता तथेष्टसुखकर्ता । श्रीआश्वसेनिरधुना प्रभुरास्ते जीरपल्लिपुरे ॥ ८५ ॥ तत्प्रथममस्य यात्रा क्रियते मत्वेति सङ्घपतयस्ते । गत्वाऽऽशु तत्र नेमुस्तं चामेयं गुणामयम् ॥ ८६ ॥ रचयन्ति स्म विचित्रानत्र महांस्ते मुदेन्द्रमालां च । गुणराजसङ्घराजः स्वाट्यशतैः पर्यघाद् बहुभिः ।। ८७ ।। नवभिष्टकसहस्रैरर्बुदतीर्थे तथैव वेल्लाकः।। इन्द्रस्रपरिधाता सद्वात्सल्यादिकर्ताऽऽसीत् ।। ८८ ॥ राणपुरेऽय चतुर्मुखचैत्ये वेल्लाकधर्मसिंहाद्याः । देवकुलिका अनेकाः कृतोत्सवाः कारयाश्चक्रुः ॥ ८९ ॥ तदनु तदानीं सिद्धक्षेत्रादावर्हतः समभ्यर्च्य। इलदुर्गे पुनरेत्य प्रणता गणतायिनस्तैर्ये ॥ ९० ॥ वेल्लाकेन च वर्धापिताः सुवर्णादिनाणकैर्गुरवः । परिधापिताः शतत्रयमितसंयतपरिता वेषैः॥ ९१ ॥ तेनैव सोमसागरगणेस्तदा यैरदायि विबुधपदम् । पावकशैले शम्भवनाथमथानम्य सङ्केशाः ॥ ९२ ॥ हृदि निर्दृतिमन्तस्ते मालवनीति निजालयानाऽऽपुः। देवाहानायुत्सवमपि व्यधुर्मण्डपे केपि ॥ ९३ ॥ (षोडशार्याकुलकम् ) अथ सं०धर्मसिंहकृतविस्तर:आकार्य सुमतिसुन्दरमरिवरान् सोत्सवेन विनयेन । धर्म्यग्यधर्मसिंहः प्रक्लुप्तवान् पिप्पलीयपुरे ॥ ९४ ॥ देवाहानकपञ्चम्युद्यापनमुख्यमप्रमेयमहम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy