________________
४६ श्रीसोमचारित्रगणिविरचितं
न्यायार्जितै कहिरण्यराशिभिः ॥ ७५ ॥ लक्षक्षमापत्यनुमत्यवाप्तितः
श्रीअर्बुदोच्चाऽचलदुर्गशृङ्गके। प्रासादमुत्तुङ्गमकारयच्चतु
मुखं मरुद्धाममुषं विभूषया ॥ ७६ ।। स्वकारितं रीतिखक्षमामणेः
पूर्ण यदेकं जिनविम्बमुज्ज्वलम् । तच्चान्यदर्चात्रयमत्र तत्सम संस्थापयामास यकैः प्रतिष्ठितम् ॥ ७७ ॥
( षड्भिः कुलकम् ) अथ मण्डपीयसं०वेलादिरचितोत्सव:श्रीसुमतिसुन्दराणामाचार्याणां निशम्य मधुरगिरम् । वेल्लाकः श्रद्धालुर्विशेषसुकृतैकरसिकोऽभूत् ।। ७८ ॥ जिनयात्राकरणमनाः सपदिसुरत्राणदत्तफरमाणः । व्यवहारिव्रजमञ्जुलतमं समादाय सङ्घमसो ॥ ७९ ।। यावन्मण्डपदुर्गाद् रतलामद्रङ्गमागमद् रङ्गात् । तावत् तत्र ससङ्घा धन्या अन्ये घना मिलिताः ॥ ८ ॥ यच्छिष्यसुमतिसुन्दरमूरिभिराधायि सङ्घपतितिलकः । वेल्लादीनां लक्ष्मीवतां द्विपञ्चाशतस्तदनु ॥ ८१ ॥ वर्णा इव के व्यञ्जनगात्राः केचित् खराश्च बिन्दुयुताः। मात्राश्रितास्तदा कति पत्रस्था वर्णितास्तज्ज्ञैः ॥ ८२ ॥ पृथक् पृथग वात्सल्यं सत्सु दुकूलादिभिश्च ताम्बूलम् । निर्मायाऽमी निखिलाः क्रमादितः प्रापुरिलदुर्गम् ॥८३॥ प्रतिपाद्य स्नात्रमहं प्रतिजिनमन्दिरमिह ध्वजारोपम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org