________________
गुरुगुणरत्ना करकाव्यम् ।
अथ सं०धनाजनितक्षण:
प्रत्यब्दयात्राकरहेमसूनुना घनाभिधेनेभ्यवरेण साधुना ।
अनन्वहंसस्य मनीषिशेखर
स्यादापि यैर्वाचकता सविस्तरम् ॥ ५९ ॥
अथाऽऽशापल्लीयप० जूठामउठाकृतविस्तरः
समग्रगीतार्थसुवेषदायका
जूठादयो ये पदुहंसनन्दनाः ।
तैर्विस्तरे चारुतरे कृते ददे
यैर्वाचकत्वं बुधसङ्घसाधवे ॥ ६० ॥
सूरित्रयं वाचकषट्कमित्यदः संस्थापितैर्यैरिलदुर्गपत्तने ।
प्रवर्तिनीनां पुनरष्टकं तदा
क्षणैस्तदप्याढ्यकृतैः पृथक् पृथक् ॥ ६१ ॥ अथ प्रा०को ० ऊजलकाजाकृतविस्तरः
प्रभूतिविश्वाद्भुतपूरुषोद्भवा प्राज्ञप्रजाप्रक्रियमाणसूत्सवा । नानाजिनावासविमानजित्वरी
या राजते राजगृहप्रभा पुरी ।। ६२ ।। सीरोहिकायामिह वासिनौ सना
लक्षक्षमानेतुरमात्यपुङ्गवौ । शत्रुञ्जयादावतिविस्तरेण यौ
यात्राकृतेः सङ्घपती च राजतः ॥ ६३ ॥ सदैव लोगस्सशतद्वयीतन्
Jain Education International
For Private & Personal Use Only
४३
www.jainelibrary.org