________________
२१० तत्त्वार्थाधिगमसूत्रम् -
[अध्यायः ९. पर्यन्ते परित्यक्तसन्निवेशविशेषं विशीर्यत इत्यनित्यमेव परिणामानित्यतया । एवमनागतमेवानुप्रेक्षमाणस्य तत्राभिष्वङ्गः-स्नेहप्रतिबन्धो न भवति । तंत्र स्नेहाभ्यञ्जनोद्वर्तनमर्दनस्नानविभूषादिषु निःस्पृहस्य धर्मध्यानादिष्वासङ्गो भवति । आगमेऽप्यभिहितम्-"जं पि मे इर्म सरीरगं इहं कंतं पियं मणुण्णं" इत्यादि । शय्या-प्रतिश्रयः संस्तरणपट्टकादिः संस्तारकफलकादिर्वा । आसनं-गोमयपीठकादि । वस्त्रं-कल्प-चोलपट्टकादि। प्रतिदिवसं रजसा विपरिणम्यमानं सर्वप्रकारं स्वां सनिवेशावस्थां विहाय विशरारुतां प्रतिपद्यत इत्यनित्यभावनाभ्यासान्न तेषु ममत्वं भवति, केवलं धर्मसाधनमिति ग्रहणम् । सर्वसंयोगाश्चानित्या इति । यावन्तः संयोगा-मम सम्बन्धाः केचिद् बाह्याभ्यन्तरैर्द्रव्यैः शय्याशरीरादिभिस्ते ह्यकाण्डभङ्गुरा इत्यवश्यं चादिमता संयोगेन वियोगान्तेन भवितव्यम् । स्वभावः खल्वयं बाह्याभ्यन्तराणां द्रव्याणामित्येवं चिन्तयेत् । कस्माद्धेतोः ? यसाच्चैवं चिन्तयतस्तेष्वभिष्वङ्गो न भवति स्नेहप्रतिबन्धः। एतदेवाह-मा भून्मे तद्वियोगजं दुःखमित्यादि । तैर्वियोगो बाह्याभ्यन्तरैव्यैः, तद्वियोगे जातं दुःखं शारीरं मानसं वा। तन्मा भूदित्यनागतमेवेत्यनित्यानुप्रेक्षा ॥
अधुनाऽशरणानुप्रेक्षाप्रतिपादनायाहभा०-यथा निराश्रये जनविरहिते वनस्थलीपृष्ठे बलवता क्षुत्परिगतेनामिबैषिणा सिंहेनाभ्याहतस्य मृगशिशोः शरणं न विद्यते । एवं जन्म-जरा-मरणव्याधि-प्रियविप्रयोगा-प्रियसंप्रयोगे-प्सितालाभ-दारिद्य-दौर्भाग्य-दौमनस्य-मरणादिसमुत्थेन दुःखेनाभ्याहतस्य जन्तोः संसारे शरणं न विद्यत इति चिन्तयेत् ।
टी०-यथा निराश्रये इत्यादि। यथेति दृष्टान्तप्रदर्शनम् । निराश्रये इति गुप्तिस्थानशून्ये । जनविरहिते इति निवारकाभावप्रदर्शनम् । यत्र तु जनस्तत्र कदाचित् कश्चित् कारुणिको निवारयत्यपि । वनस्थलीपृष्ठ इति । वनशब्देन वृक्षा एव गृह्यन्ते, न पुनर्जालिकूटादिगुप्तिस्थानम् । बलवतेति । दुबैलेनाभिभूतः कदाचित् प्रणश्यत्यपि । बलवानपि यदि ध्राणो भवति ततो मन्दादरत्वान्नानुगच्छेदित्याह-क्षुत्परिगतेन आमिषैषिणेति । सिंहेन-मृगराजेन अभ्याहतस्य-अभिभूतस्य । मृगशिशोरिति जीर्णमृगः कदाचिदनुभूतकूटशतवागुरानिःसरणः प्रगल्भत्वात् प्रणश्येदपि, न पुनः शावः । शरणं-भयापहारि स्थानं तस्य चाभावः।
१ 'ततश्च' इति ग-पाठः। २ भगवत्यां (श० २, उ० १, सू० ९४ ) १२७ तमे पत्राङ्के । ३ छाया
. यदपि मे इदं शरीरकं इष्टं कान्तं प्रियं मनोज्ञम् । ४ ' मे सम्बन्धा' इति ग-पाठः। ५ ‘र्जालिझाटाविंगुप्ति' इति ग-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org