SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ सूत्र ४] . .स्वोपज्ञभाष्य टीकालङ्कृतम् टी-परदारेत्यादिना ऐहिकामुष्मिकप्रत्यवायोपदर्शनम् । परेषां दाराः परदाराःपरपरिगृहीतयोषितः । श्रुतज्ञानप्रतिषिद्धश्च सर्वो मैथुनव्यापारः परदारशब्दवाच्यः, तदभिगमनं तदासेवनं (तेन) जनितानिहैव वैरपरम्परा शिरश्छेदनं ताडनं बन्धनं द्रव्यापहारं, आदिग्रहणात् नानाविधाः,प्रतिलभत इति, एत एव प्रत्यपायाः प्रेत्य चेत्यादिना पारलौकिकात्यपायदर्शनम् । तसादब्रह्मणो व्युपरमः श्रेयानिति॥ यथा प्राणातिपातादिप्रवृत्तः प्रत्यवायेन युज्यते, भा०-तथा परिग्रहवान् शकुनिरिव मांसपेशीहस्तोऽन्येषां परिग्रहस्य विपाकः क्रव्यादशकुनानामिहैव तस्करादीनांगम्यो भवति । अर्जेनरक्ष णक्षयकृतांश्च दोषान् प्राप्नोति ॥ टी-तथा परिग्रहवानित्यादि । शास्त्राननुज्ञातो मूर्छास्पदं च परिग्रहः तद्वान् परिग्रहवानिति । ऐहिकप्रत्यवायप्रदर्शनार्थ शकुनिरिवेत्यादिदृष्टान्तग्रन्थोपन्यासः परप्रत्यायनप्रयोजनः । मांसपेशीति । मांसखण्डमेव दीर्घ पेश्युच्यते । आदानमोक्षणव्यापारववाद पादोऽपि हस्त एव शकुनेः, मांसपेशी हस्ते यस्येति मांसपेशीहस्तः । व्यधिकरणानामपि गमकत्वाद् बहुव्रीहिः कण्ठेकालवत् । अन्येषां क्रव्यादशकुनानामिति । आममांसभक्षाः क्रव्यादा अभिधीयन्ते । कृतविकृतशब्द उपपदेऽपि प्रत्ययोद्देशः, पृषोदरादित्वाच कृतविक तशब्दस्य क्रव्यादेशः । कृतविकृतपकमांसभक्षास्तु क्रव्यादाः। कर्मण्यणेवेति । मांसपेशीपरिग्रहहेतोःक्रव्यात्पतत्रिणामिहैव गम्यः-अभिभवनीयः, चञ्चुचरणनखमुखपक्षतिप्रहतः परिशटत्पतत्रव्रजः शरणार्थी वियति नश्यन् निरालम्बनः परिश्रान्तस्तरुशिखराद्युपत्रप्राप्तिसमनन्तरमाक्रम्य बलादपहृतमांसपेशीकः किञ्चिदुच्छ्रसन् कण्ठगतप्राणः कृच्छ्राद् विमुच्यते शकुनिभिः । तस्करादीनां च गम्यः परिग्रहवान् । आदिग्रहणाद् राजदायादपरिग्रहः। तस्करादयः प्रसभं चौर्येण वाऽपहारमाचरन्त्यभिभूयेति । अर्जन, उपात्तस्य पालनं रक्षणं, क्षयो -नाश इत्यर्जनादिकृतांश्च परिग्रहवान् अवानोति दोषान् । तत्रार्जनं न्याय्यमन्याय्यं वा । न्याय्यं वाणिज्यकर्मकरत्वं कृष्याधुपायम् । तच्चातिक्लेशयुक्तम् । अन्याय्यं तस्करत्वाद्युपायसाध्यम् । तत्रापि वधवन्धविशसनादिदोषाः। रक्षणमपि सूत्रसुचेतसो (१) रात्रिंदिवं नृपदहनतस्करदायादमूषिकादिभ्यः क्लेशबहुलम् । क्षयोऽप्युपभोगादपुण्योदयाच्च । तत्रोपभोगकालमधिकृत्येदमाह भा०-न चास्य तृतिर्भवतीन्धनैरिवाग्ने, लोभाभिभूतत्वाच कार्याकार्यानपेक्षो भवति, प्रेत्य चाशुभांगतिं प्राप्नोति, लुब्धोऽयमिति च गर्हितो भवतीति परिग्रहादू व्युपरमः श्रेयान् ॥ ४॥ किश्चान्यत् १'विप्रत्ययादेः' इति ग-पाठः । २ 'दुच्छ्वासात् ' इति ङ-पाठः । ३ 'सूचित' इति ङ-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy