________________
सूरिकृतटीका ]
सम्बन्धकारिकाः दयः । ते हि पुत्रदारायवियोगमिच्छन्तः पूर्वोपात्तविषयापरित्यागेन शेषोपार्जनपरा निसर्गभद्रमनसोऽर्थिजनमनःप्रीणनकृतप्रयत्नाः परलोकफलार्थिनः प्रसिद्धपुण्यद्वारेषु यथाशक्ति स्वमुपयुञ्जते । तदेतत् त्रिविधस्वामिकमपि कर्म संसारबीजोपचयात् सामान्यतोऽकुशलानुबन्धमित्युच्यते ॥४॥
इदानीं कुशलाकुशलानुबन्धखामीपरलोकहितायैव, प्रवर्तते मध्यमः क्रियासु सदा । मोक्षायैव तु घटते, विशिष्टमतिरुत्तमः पुरुषः ॥ ५॥ आर्या
व्या०-परलोकेत्यादि। परलोकजन्मनः परलोकजन्मने वा हितं परलोकहितं तदर्थ परलोकहिताय,इहलोकाप्रतिबन्ध परलोकैकार्पितमनस्त्वं चैवकारोऽवधारयति । प्रवर्तते प्रयतते, समारभत इति वर्तमानेऽपि कर्तृनिर्देशे पुनर्ग्रहणम् । स हि द्वितीयावस्थाप्राप्तः सर्वार्पितकरणोपकरण इत्युक्तम्, अस्य तु तिसृष्वप्यवस्थासु सामान्यतः प्रवर्तत इति व्यपदेश इत्ययं विशेषः। पूर्वोत्तरावस्थामध्ये भवो मध्यमः क्रियासु सदा, अयं क्रियाशब्दोऽस्ति भाववचनः-कदाऽस्य क्रिया, अस्ति स्पन्दने-निष्क्रियमाकाशं, अस्ति चिकित्सने, चतुष्पदी क्रिया, अस्ति न्याय्येक्रियावान् ब्राह्मणः इह न्याय्यवचनः न्याय्येषु प्रवर्तत इत्यर्थः । तच्च न्याय्यमिव, सदा सर्वकालं यावज्जीवम् । निदर्शनं तापसादयः, ते हि ग्रामगृहवासभोगान् परित्यज्य वनवासाभिरतयः परलोकार्थिनः शीर्णपर्णमूलकन्दफलाद्याहारिणः अभिषेचनहवनादिषु क्रियासु प्रवर्तन्ते, एतदपि पूर्वोत्तरोत्कृष्टहीनत्वान्मिश्रानुबन्धमित्युच्यते कुशलाकुशलानुबन्धस्वामी । मोक्षायैव तु घटते विशिष्टमतिरुत्तमः पुरुषः। मोक्षोऽशेषकर्मवियोगलक्षणो वक्ष्यते तदर्थ मोक्षाय । संसारभोगेष्वेकान्तनिःस्पृहत्वम्, एवकारोऽवधारयति, निवृत्तिविशेषणयोस्तुशब्दः चतुःस्वामिकमप्येतद्भवानुबन्धं कर्म निवर्तयति, दर्शनमात्रलामेऽपि मोक्षायैव तु घटत इति विशेषयति । अत एवोक्तं परमार्थालाभेऽपि कुशलानुबन्धायानवद्यकमणे यतितव्यमिति, प्रवर्तत इति व्यावृत्तत्वाद्विशेषाच्च घटत इत्युक्तम् , दर्शनमात्रमपि लब्ध्वाध्याप्तपरमार्थवीजोऽहमवश्यममुक्तमार्गोऽधिगमिष्यामि क्षेममिति शनैः शनैरपि घटत इति विशेषः, चतुष्पुरुषीतो विशिष्टा मतिरस्येति विशिष्टमतिः, उत्तमः प्रधानो विद्वान्नर इति वर्तमानेऽपि पुरुषग्रहणात् पूर्वैरेकान्तभेदविशेषमाह । पुण्यवत्त्वं चास्य दर्शयति, यावदयं न मुच्यते तावत् प्रायो विशिष्टपुरुषवेदादिपुण्यराशिभागी। वक्ष्यति पुरुषवेदादयः पुण्यमिति, निदर्शनं यतिश्रावकादयः, ते हि दर्शनादिलाभानन्तरमेवोदधिसलिलान्तर्वर्तिन इव नौलाभपरितुष्टाः दुष्टपरिचितव्यालाकुलभीमगुहानुशायिन इवावश्यंभावि भयं संसारेऽनुपश्यन्तः सर्वथा शक्तितो वा प्राणातिपातादिविरताः संसारभोगलवनिरभिवाञ्छा यतन्ते,
१ 'ब्यसेकप्रयोगानुषङ्ग...'इति क-पाठः, स-पाठोऽपि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org