________________
तत्त्वार्थाधिगमसूत्रम्
[श्रीदेवगुप्तउक्तमपिशब्दविकल्पे षट् पुरुषप्रकृतय इति, काः पुनस्ता इति, एताः अधमतमः अधमः विमध्यमः मध्यमः उत्तम उत्तमोत्तम इति, आसामाचार्यो निरूपणार्थमाह
कर्माहितमिह चामुत्र, चाधमतमो नरः समारभते । इहफलमेव त्वधमो, विमध्यमस्तूभयफलार्थम् ॥ ४ ॥ आर्या
व्या०–कर्माहितमित्यादि । अथवा किमन्यदपि कर्मास्ति यतो विशेष्यते कुशलानुबन्धमिति, ओमित्याह चतुर्विधम्, कथमिति, षटू पुरुषाः तेषामाधत्रयसाकुशलानुबन्धं, चतुर्थस्य कुशलाकुशलानुबन्ध, पञ्चमस्य कुशलानुबन्धं, षष्ठस्य तु निरनुबन्धमिति । एषां खामी विकल्पमाह-कर्माहितमित्यादि । कर्माहितमिह चामुत्र चाधमतमो नरः समारभते । अहितमकुशलमित्यर्थः, काहितम् ? इह चामुत्र च, इहलोकपरलोकयोः, इह चेति एवार्थे चशब्दः । आस्तां तावत्परलोके, इहैव तावदिदं जिजीविषुभिरिव विषपानमारभ्यमाणमहितायेति । उत्तरः समुच्चये, इह चामुत्र चेति, अधमतमो जघन्यतमः-पापिष्ठः नरो मनुष्यः । त्रयाणामपि सम्भवे व्यवहारप्रधानत्वादारम्भसमथेत्वाच्च प्रायः पुरुषनिर्देशः। समारभते। समेकीभावे, क्रियायोगाभिविध्योराङ्, सर्वार्पितकरणोपकरणो यहितमारभते, संरम्भसमारम्भारम्भावस्थाश्च वक्ष्यति, तासामाद्यद्वितीययोस्तावदयमहितानुबन्धी किं पुनस्तृतीयस्यामिति दर्शयति । निदर्शनं त्वस्य मार्गिकमत्स्यबन्धादयः, ते हि सर्वकुत्सितवृत्तयोऽन्त्यावसायिनो विशिष्टजनधिकृतजन्मानो रूक्षस्फुटितविकृतशरीराः कृच्छ्रेणापि जिजीविषवः सलिलारण्यपर्वतादिषु परोपघाताय पर्यटन्तः क्षुत्पिपासाशीतोष्णवर्षवातदंशादिसन्निपातदुःखप्रत्यपायमिहैवाप्नुवन्ति,आयुर्भोगानन्तरं चाकुशलकर्मप्रेरिता नरकेपूत्कटदुःखभाविनो भवन्तीत्येवमुभयलोकाहितानुवन्ध्यधमतमः । इहफलमेव त्वधमः,इह फलमस्येति इहफलं कर्म, एवावधारणे, इहफलमेव च कर्म नोर्ध्वमिति, तुशब्दो विशेषोपप्रदर्शननिवृत्त्योः , न तदिहफलमेव, अधमस्त्वेवमुपात्तबुद्धिः सन् समारभत इति । परलोकमनोरथं निवर्त्य विशिष्योपदर्शयति । अधमो जघन्यः पापः । निदर्शनं परलोकापवादिप्रभृतयः, ते हि कृच्छ्रावाप्तविषयामिषानुषक्तचेतसो मोहपटलाकुलान्तरात्मानो भोगलवत्यागासहिष्णवो निर्बीजा अपलापित्वादेकाकिनो मा भूष्यन् निष्कुत्सिता इति च सहायान् जिघृक्षवः, कः
पुनः परलोकादागतो मूढप्रवादोऽयमेतावदेवेदमिन्द्रियगोचरान्तर्वति वस्तु नोवमित्येवमादिभिर्बालिशजनविप्रलम्भनोपायैः परलोकमपोखैव ऐहलौकिकेषु पूर्वेभ्यो न्यूनेषु कर्मसु प्रवर्तन्ते । विमध्यमस्तूभयफलार्थम्, अप्राप्तो मध्यमावस्थां विमध्यमः। उभयसिन् फलं उभयफलं तदस्याओं निवन्धनमित्युभयफलार्थ कर्म, उभयफलाय उभयफलार्थ कर्म, समारभते इति करोति । कथमुभयत्रापि फलं मुंजीयेति तुशब्दो विवेचयति । निदर्शनं महाभोगिकृषीवलवणिगा१'अधमाधमः' इति क-पाठः। २'मा भूष्यन् नः कुत्सिता' इति ख-पाठः, 'माभूष्यन् निःकुत्सिता' इति ग-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org