________________
तस्वार्थाधिगमसूत्रम्
[ श्रीदेवगुप्त
वक्ष्यमाणा निर्वृत्तिः “तन्निसर्गादधिगमाद् वा " (अ० १ सू०३) इति । कर्तर्यपि, अत एव आप्नोतीति युक्तम्, आत्मा हि सम्यग्दर्शनी सलिलमिव स्वच्छतामन्यां ज्ञानावस्थामाप्नोतीति वक्ष्यते । अवश्यं च य इति कर्तुर्निर्देशः कर्तव्यः, स छुपायैरात्मानं शोधयतीति । चतुर्थ्यामप्यधिगमाभिप्रायः, नैसर्गिकाद् अवाप्तश्रद्धोऽध्ययनादिभिराधिगमिकमाप्नोति तदर्थमिति, शुद्धिकारणं तु शुद्धमध्ययनादिकाले । पञ्चम्यामपि, स्वयंसम्बुद्धादिषु निसर्गसम्यग्दर्शन हेतुकमेव तत्, वक्ष्यति हि "अपरोपदेशो निसर्गः" इति, तेषां हि परोपदेशमन्तरेण क्षयोपशमादिलब्धिभ्यः समीहमानानामुत्तरकालं प्रागिव द्राग् उत्पद्यते ज्ञानम् । सप्तम्यामपि सत्सप्तमी, सति हि सम्यग्दर्शने शुद्धं ज्ञानमन्यथा सर्वशुद्धप्रसङ्ग इति । अधिकरणे वा, यथा आकरे शुद्धानि भाण्डानीति । एवमन्येऽप्याक्षेपपरिहारमार्गाः सन्ति, प्रसङ्गभयात् तु नाद्रियन्ते । तृतीयापक्षः पुनरत्र ज्यायान् । सम्यग्दर्शनेन शुद्धमिति “कर्तृकरणे कृता” (पाणिनिः २।१।३२) इति समासः । तत्पूर्वकमित्यर्थः, दर्शनमूलत्वाच्च श्रेयसस्तेन शुद्धमित्युच्यते । उक्तञ्चायमर्थः प्रवचने—" भ्रष्टेनापि च चारित्राद् दर्शनमिह दृढतरं ग्रहीतव्यम् ।
सिध्यन्ति चरणरहिता, दर्शनरहिता न सिध्यन्ति ॥" आर्या
न च श्रुतमधीयानस्याध्ययनादिभ्यो ऽधिगमसम्यग्दर्शनावाप्तिरिति कृत्वा ज्ञानशुद्धंदर्शनमाशङ्कितव्यम्, प्राग् दर्शनादज्ञानमेव । तदुक्तं च प्रवचने – “द्वादशाङ्गमपि श्रुतं विदर्शनस्य मिथ्ये" ति । न चाशुद्धाशये भैषजमिव श्रुतमात्मलाभं लभते । एतेनाशय शुद्धौ तस्यैव सम्यक्त्वेन विपरिणामो जायत इति व्याख्यातमेव । श्रुतमेवाशयशोधनमिति चेत्, न, अभव्यानामध्ययनादिक्रियासम्भवेऽपि दर्शनासम्भवात्, वक्ष्यति हि, सम्यग्दर्शनपरिगृहीतं मत्यादि ज्ञानमन्यथा त्वज्ञानमेवेति । भवति चान्यथापि पदार्थाध्ययनमात्रं, न तु रुचिं विरहय्य दर्शनम्, अवश्यं प्रागाशयविशुद्धिरेष्टव्या । य इति जन्मवतः कर्तुरुद्देशः । ज्ञानं पञ्चप्रकारं वक्ष्यमाणम् । तत्राद्यत्रयं व्यभिचारित्वादिष्यते तस्य विशेषणं, उत्तरं तु द्वयं शुद्धत्वादेव न, दैवरक्ता हि किंशुकाः । विरमणं विरतिव्रतं संयमचारित्रमित्यर्थः । साऽपि सम्यक्पूर्विकैव पञ्चतया वक्ष्यते । अत्र किं सम्यग्दर्शनशुद्धा विरतिरिष्यते, उत ज्ञानशुद्धा ? उभयथाऽप्यदोषः, कारणकारणत्वेन दर्श
शुद्धा कारणत्वेन ज्ञानशुद्धा । वक्ष्यति हि, "विरतिर्नाम ज्ञात्वाऽभ्युपेत्याकरणम्" (अ०७, सू० १, भाष्यम्) इति । इत्थं चेयं विरतिर्यदुत दर्शनज्ञानशुद्धाशयस्वामिनी, इतरथा तु मार्जारसंयमकल्पा स्यात्, एतच्च सच्चरित्रमधिकृत्य वक्ष्यति “उत्तरलाभे तु नियतः पूर्वलाभः " ( अ० १ सू० १, भा० ) इति । तस्मात् त्रितयमप्येतत् सम्यक्पूर्वकं निःश्रेयसाय कल्पत इति साधूपदेशः । एवकारोऽवधारणे, दर्शनज्ञानविरतय एव जन्मनः सुलब्धत्वे कारणं, नोनम, अधिकमप्यतो नास्त्येवेति । एकतमवत् तु जन्मान्यजन्मापेक्षया सुलब्धमिव सुलब्धं, वक्ष्यति चैषां मोक्षहेतुत्वम् । तच्चावधारयति, त्रयमेवैतत् नोनमधिकं वा मोक्षायेति । तच्च सप्रयोजनं सूत्रे ऽभिधास्यते,
१ मतिश्रुतावधयो विपर्ययश्च (अ० १ सू० ३२ ) इति सूत्रस्य भाष्ये । २ ' ज्ञानं भवत्यन्यथाऽज्ञानमेवेति' इति क-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org