SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ श्रीपरमात्मने नमः। श्रेष्ठि-देवचन्द्रलालभाई-जैनपुस्तकोद्धार-ग्रन्थाङ्के श्रीउमास्वातिवाचकवर्यविरचितम् तत्त्वार्थाधिगमसूत्रम् 000000000 स्वोपज्ञाः सम्बन्धकारिकाः ( श्रीदेवगुप्तसूरि-श्रीसिद्धसेनगणिप्रणीतटीकाद्वययुताः) सम्यग्दर्शनशुद्धं, यो ज्ञानं विरतिमेव चाप्नोति । दुःखनिमित्तमपीदं, तेन सुलब्धं भवति जन्म ॥ १॥ आर्या श्रीदेवगुप्तसूरिकृताटीका वीरं प्रणम्य सर्वज्ञं, तत्वार्थस्य विधीयते । टीका संक्षेपतः स्पष्टा, मन्दबुद्धिविबोधिनी ॥ अनुष्टुप् व्याख्या सम्यगर्हत्प्रवचनमधिगम्य कालसंहननश्रद्धायुरादेः परिहाणिमवलोक्य सत्त्वानुकम्पया समासतो मोक्षमार्गमुपदेष्टुकाम आचार्य इदमाह--सम्यग्दर्शनशुद्धं यो ज्ञानं विरतिमेव चाप्नोति । अत्र सम्यग्दर्शनशुद्धमिति कतरो विग्रह आस्थीयते ? यदि तावत् सम्यग्दर्शनेन शुद्धमिति करोति करणे तृतीया, परश्वादीनामिव प्राङ् निर्वृत्तिवक्तव्या; उत कर्तरि, तदा दर्शनज्ञानयोरभेदाद् आत्मनो, य आप्नोतीत्ययुक्तम् । अथ सम्यग्दर्शनायेति तादर्थ्य चतुर्थी, दार्विव यूपाय, प्रागेव दर्शनात् शुद्धं ज्ञानम्, अवाप्तज्ञानस्य च केवलिन इव किं दर्शनेन ? उत सम्यग्दर्शनात् हेतौ पञ्चमी, स्वयंसम्बुद्धादिषु विरुध्यते, तेषां हि झगित्येव ज्ञानं न हेतुक्रममपेक्षते। अथ सम्यग्दर्शने शुद्धमिति निमित्तसप्तमी, चतुर्थीपक्षदोषः। तस्माद् वक्तव्योऽत्र समाधिः । यथेच्छसि तथाऽस्तु । ननूक्तं दोषभूयस्त्वम् । नैते दोषाः। करणे तावद् १ आर्या-लक्षणम्-- . यस्याः पादे प्रथमे, द्वादश मात्रास्तथा तृतीयेऽपि । अशावश द्वितीये, चतुर्थके पश्चदश साऽऽर्यो ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002715
Book TitleTattvarthadhigamsutram Part 1
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1925
Total Pages546
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy