________________
सूत्रं ३५)
स्वोपज्ञभाष्य टीकालङ्कृतम् व्यावर्तयति बन्धं च विशेषयतीति । न जघन्यगुणानामिति प्रकृतप्रतिषेधस्तं व्यावर्तयति, यथाऽधिकृतं च बन्धं विशिनष्टि, गुणवैषम्ये सति सदृशानां गुणद्वयाधिकानां बन्धो भवतीत्येवंविशेषणार्थः, ततश्च व्यावृत्ते प्रतिषेधे बन्धे च विशेषिते व्यधिकादिगुणानां बन्धः सिद्धो निरपवाद इति ॥ आगमगाथासंवादी चायं सूत्रचतुष्टयार्थ:"निद्धस्स निद्धेण दुआधिएण, लुक्खस्स लुक्खेण दुआधिएण । निद्धस्स लुक्खेण उवेति बंधो, जहण्णवज्जो विसमे समे वा॥१॥"-प्रज्ञा० गा० २००
गुणवैषम्ये सदृशानां यधिकादिगुणानां तु बन्धो भवतीत्यस्य वाचकं गाथाशकलमाद्यं, स्निग्धस्य स्निग्धेन सह रूक्षस्यापि रूक्षेण सहेति, ततश्च "गुणसाम्ये सदृशानां" (सू० ३४) भवति बन्ध इत्येतत् सूत्रं लब्धम् । अथ स्निग्धरूक्षयोः परस्परेण कथमित्याह-पाश्चात्यमर्धम् । एतेन च "स्निग्धरूक्षत्वाद् बन्धः" (मू० ३२), "न जघन्यगुणानाम्" (सू० ३३) इति सूत्रद्वयपरिग्रहः । स्निग्धगुणरूक्षयोश्च जघन्यगुणवर्जः परस्परेण विषमगुणयोः समगुणयोश्च बन्धो भवतीति ॥३५॥
भा०-अत्राह-परमाणुषु स्कन्धेषु च ये स्पर्शादयो गुणास्ते किं व्यवस्थितास्तेषु आहोस्विव्यवस्थिता इति ? । अत्रोच्यते-अव्यवस्थिताः । कुतः? परिणामात्। अत्राह-द्वयोरपि बध्यमानयोगुणवत्त्वे सति कथं परिणामो भवतीति ॥ उच्यते
टी०-अत्राह-परमाणुष्वित्यादिना ग्रन्थेन सूत्रं सम्बधाति । अत्रेत्यौत्सर्गिके बन्धलक्षणे सापवादे प्रतिपादिते पृच्छत्यजानानः, परिणामविशेषो हि बन्धः, स च स्निग्धे रूक्षलक्षणपरिणामान्तरापाद्यः, अतः परमाणुषु ये स्पर्शादिगुणपरिणामाः स्कन्धेषु वा शब्दादयस्ते किं नित्याःसर्वदा व्यवस्थितास्तेषु परमाण्वादिष्वाहोस्विव्यवस्थिता-भूत्वा पुनर्न भवन्तीति । अयमभिप्रायः प्रश्नयितुः-परमाणवः संहन्यमाना द्विप्रदेशादिकस्कन्धाकृत्या परिणमन्ते परिमण्डलादिपञ्चप्रकारसंस्थानरूपेण वेति, तत्र यदि व्यवस्थिताः परमाणुषु परिणामाः स्पोदयः स्कन्धेषु वा स्पर्शादिशब्दादयस्ततस्तेषां व्यवस्थितत्वात् सर्वदा नोत्पादो न विनाशः, तौ चान्तरेण स्निग्धरूक्षगुणयोरण्वोः परिणामाभावे तदवस्थयोः कुतो व्यणुकादिस्कन्धपरिणामः? स्कन्धेषु वा स्पर्शादिशब्दादिपरिणामस्यैकस्यैव नित्यतयेष्टत्वात् शेषस्पर्शादिशब्दादिपरिणामामायः। अथान्यवस्थिताः,सर्वमिष्यमाणमुपपन्नम्, पूर्वकपरिणामत्यागेनोत्तरपरिणामान्तराभ्युपगमे स्पर्शादयोऽन्ये चान्ये च स्पर्शादिशब्दादयश्च क्षेत्रकालद्रव्यभावपरिणामविशेषाः स्युरित्यवगम्येत यथापरिणामं वस्त्विति, तन्न जाने कथमेतदिति, सति चाप्यव्यवस्थितत्वे किं समगुणः समगुणतयैव परिणमयत्युत विषमगुणतयाऽपीति सन्दिहानं प्रतीदमत्रोच्यते-अव्यव१ . स्निग्धस्य स्निग्धेन द्वयाधिकेन, रूक्षस्य रूक्षेण द्वयाधिकेन ।
स्निग्धस्य रूक्षेणोपैति बन्धो, जघन्यवों विषमः समो वा ॥ २ . पातोत्थः' इति क-पाठः । ३ 'विषमतया' इति क-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org