SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ५. सूत्रम्-द्वयधिकादिगुणानां तु ॥.५-३५ ॥ भा०-द्वयधिकादिगुणानां तु सदृशानां बन्धो भवति । टी०-घधिकादिगुणानां तु सदृशानां बन्धो भवतीत्यादि भाष्यम् । द्वाभ्यां गुणविशेषाभ्यामन्यस्मादधिको यः परमाणुः स आदिर्येषां ते व्यधिकादिगुणाः । गुणशब्दोत्र गुणिवचनः । गुणवन्तो गुणाः परमाणव इत्यर्थः । तेषां व्यधिकादिगुणानामणूनां सदृशानां बन्धो भवति, सदृशानामिति स्नेहसामान्यं रूक्षसामान्यं चाश्रित्य सादृश्यं व्याख्येयम् । भा०–तद्यथा-स्निग्धस्य द्विगुणाधिकस्निग्धेन , द्विगुणाद्यधिकस्निग्धस्य एकगुणस्निग्धेन, रूक्षस्यापि द्विगुणाद्यधिकरुक्षेण, विगुणाद्यधिकरूक्षस्य एकगुण. रूक्षण, एकादिगुणाधिकयोस्तु सदृशयोबन्धो न भवति । अत्र तुशब्दो व्यावृत्तिविशेषणार्थः, प्रतिषेध व्यावर्तयति बन्धं च विशेषयति ॥३५॥ . टी-तद्यथा-स्निग्धस्येत्यादिनोदाहरति । [एकगुण]स्निग्धस्येत्यनुक्तेऽपि सङ्ख्या गम्यते गुणश्चसामर्थ्यात्, द्विगुणाद्यधिकस्निग्धेनाणुना, द्वाभ्यां स्नेहगुणविशेषाभ्यामेकगुणस्निग्धादद्धिको यस्तेन सहास्ति बन्धः, यथैकगुणस्निग्ध एकस्तदन्यस्त्रिगुणस्निग्धः, अत्रैकगुणस्निग्धस्यैकः समानो गुणस्त्रिगुणस्निग्धे (स्कन्धे) अणौ वा शेषेण गुणद्वयेनाधिकः, द्विगुणाद्यधिकस्निग्धेनेत्यादिग्रहणादेकगुणस्निग्धस्य चतुर्गुणपश्चगुणस्निग्धेनापिबन्धसिद्धिः, तथा द्विगुणाद्यधिकस्निग्धस्यैकगुणस्निग्धेन सह बन्धसम्भवःनिनु च प्रथमविकल्पान्नास्ति कश्चिद् विशेषोऽस्य स्फुटः, सत्यं, न कश्चिद् भेदः, तथापि तु बन्धो न्यादिवृत्तिः, तत्र बध्यमानयोर्बध्यमानानां वा षष्ठयन्तत्वे तृतीयान्तत्वे वा बन्धाविशेष इति प्रतिपत्त्यर्थमुभयथोच्चारणं चकार भाष्यकारः॥ रूक्षस्थापीत्यादिभाष्यमुक्तप्रकारेणैव गमनीयम् , एवं अधिकादिगुणानां स्नेहवतां रौक्ष्यवतां च यथोक्तलक्षणो बन्धो भवतीत्युच्यते, प्रतिषेधव्यावृत्तिप्रदर्शनार्थ भवति तुशब्दोपादानम् । यधिकादिगुणानां बन्धाभ्यनुज्ञाने चाथोपत्तिलभ्यफलप्रदर्शनार्थमिदमाह-एकादिगुणाधिकयोस्तु सदृशयोबन्धो न भवति, प्रतिविशिष्टपरिणतिशक्तेरभावात् , एकगुणस्निग्धस्य हि द्विगुणस्निग्धोऽणुरेकगुणाधिकः,द्विगुणस्निग्धस्य त्रिगुणस्निग्ध एकगुणाधिकः, त्रिगुणस्निग्धस्य चतुर्गुणस्निग्ध एकाधिक इत्यादि यावदनन्तगुण एकाधिक इति, एवं रूक्षस्यापि वाच्यम्, एकादिगुणाधिकयोरित्यत्रादिग्रहणाद् द्विगुणस्य त्रिगुणेन सह नास्ति बन्धः, तत्रापि द्विगुणश्चैकगुणाधिकश्चेति द्विवचनम्, एवं शेषविकल्पयोजनमपि कार्यम्, तुशब्दः कैमर्थक्यात् सूत्र इत्याशङ्किते भाष्यकृहाह-अत्र तुशब्दो व्यावृत्तिविशेषणार्थः ॥ तुशब्दस्यानेकार्थवृत्तित्वे सत्यप्यत्र सूत्रे व्यावृत्तिर्विशेषणं चोभयमर्थः परिगृह्यते, व्यावृत्तिश्च विशेषणं च व्यावृत्तिविशेषणे अर्थस्ते यस्य स तथोक्तः, तत्र व्यावृत्तिः-निवृत्तिः, विशेष्यतेऽनेनेति विशेषणं, तदर्थो यस्यासौ व्यावृत्तिविशेषणार्थः, कस्य पुनावृत्तिः किं वा विशेष्यमाणमित्याह-प्रतिषेधं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002715
Book TitleTattvarthadhigamsutram Part 1
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1925
Total Pages546
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy