SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ सूत्रं ३१] स्वोपभाष्य-टीकालङ्कृतम् ४१९ कैकशब्दवाच्यार्थावलम्बिनश्च शब्दप्रधाना अर्थोपसर्जनाः शब्दनयाः प्रदीपपदर्थस्य प्रतिभासकाः व्यञ्जनपर्यायसंज्ञकाः । तदेवमर्थव्यञ्जनपर्यायार्पणानर्पणद्वारकानेकात्मकैकार्थनिरूपणवदभिधानप्रत्ययविषयाऽपि भावनाऽभिधेया। तत्र पुद्गलद्रव्यपरिणतिविशेषः शब्दोऽभिधानः, पुद्गलद्रव्यं चातीतवर्तमानागामिभूरिपर्यायपरिणाम्यर्पितभजनापेक्षया सदसन्नित्यानित्याधनेकधर्मात्मकम्, प्रत्ययोऽपि हि ग्रहणलक्षणात्मद्रव्यांशापेक्षया सख्यापरिमाणाकारायनेकरूपपर्यायापेक्षया च सदसन्नित्यानित्यादिस्वभाव इत्येवं सदसन्नित्यानित्यादिस्वभावं जगत् पञ्चास्तिकायात्मकमर्पितानर्पितलक्षणसकलशास्त्रगर्भत्रिसूत्रीविन्यासस्थाद्वादप्रक्रियासङ्गतेः सिद्धम्॥३१॥ भा०-अत्राह-उक्तं भवता (अ० ५, सू० २६)-सङ्घातभेदेभ्यः स्कन्धा उत्पद्यन्ते इति । तत् किं संयोगमात्रादेव सङ्घातो भवति,आहोस्विदस्ति कश्चिद् विशेष इति । अत्रोच्यते टी०-अत्राह-उक्तं भवतेत्यादिः सम्बन्धग्रन्थः। प्रतिपादितार्थमारणप्रज्ञेनाज्ञः प्रकृतार्थशेषसम्बन्धमभिधापयति,कारणायत्तजन्मा कार्यप्रसवः, सङ्घातात् स्कन्धाः समुत्पद्यन्ते, इतिशब्दो यस्मादर्थः, तच्छब्दस्तसादर्थः, यसात् सङ्घातात् स्कन्धानामुत्पत्तिः प्रतिधीयते तसात् सन्देहः, किं संयोगमात्रादेव यणुकादिलक्षणः स्कन्धो भवति, आहोस्विदस्त्यत्र कश्चित् संयोगविशेष इति, मात्रग्रहणं सेनावनादिवत् केवलसंसक्तिप्रतिपादनार्थम्, संयोगमात्रं न तु संयोगविशेषाः, इतिशब्दः आशङ्केयत्ताप्रतिपत्तये, आचापुद्गलबन्धहेतुः यस्यापि चित्तपरिवर्ती संयोगविशेषस्तत्प्रतिपादनायात्रोच्यते इत्याह, अत्रेति प्रश्नविषयाभिसम्बन्धः यत्पृष्टस्तनिश्चीयते विधीयत इति, मनीषितसंयोगविशेषाभिव्यक्त्यर्थमाह: भा०-सति संयोगे बद्धस्य सङ्घातो भवतीति । अत्राह-अथ कथं बन्धो भवतीति । अत्राह: टी–सतीत्यादि। सति परस्परसट्टलक्षणे संयोगे बद्धस्यैव-एकत्वपरिणतिभाजः सङ्घातात् स्कन्धोत्पत्तिः, एवकारार्थमितिकरणम्, पुद्गलानां पर्यायानन्त्येऽपि स्वजात्यनतिकमेण परस्परविलक्षणपरिणामाहितसामर्थ्यात् सति संयोगविशेषे केषाञ्चिदेव बन्धो न सर्वेषामिति निश्चितमेतत्, संयोगविशेषात् स्कन्धोत्पादः, न पुनर्व्यज्ञायि स्वरूपेण संयोगविशेषः, तत्परिज्ञानाय प्रश्नेनोपक्रमं पुनः परस्य प्रकटयति-अत्राहेति । सति सङ्घाते बन्धस्य सतः स्कन्धपरिणाम इति बन्धमेव पृच्छति--अथ बन्धः कथं भवतीति । अथेत्यानन्तर्यार्थः, बद्धस्य स्कन्धपरिणामो भवतीत्युक्तेऽनन्तरं च य एव जिज्ञास्यते बन्धः-एकत्वपरिणामः स कथं-केन प्रकारेणावोरणूनां वा जायत इति, किं परस्परानुप्रवेशेनाहोस्वित् सात्म्येिन प्रवे १. परिणत्यर्पितभजनापेक्षया ' इति क-ख-पाठः। २' नित्यादि ' इति क-ख-पाठः । ३ 'जायन्त ' इति ग-पाठो विचारणीयः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002715
Book TitleTattvarthadhigamsutram Part 1
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1925
Total Pages546
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy