________________
४१८ तत्वार्थाधिगमसूत्रम्
[ अध्यायः ५ अधुना सप्तमविकल्पश्चतुर्भिरेशैस्त्रयंशः । कश्चिद् द्रव्यार्थविशेषमाश्रित्यास्तित्वं पर्यायविशेषं च कश्चिदङ्गीकृत्य नास्तित्वं समुचितरूपं भवति, द्वयोरपि प्राधान्येन विवक्षितत्वात, य(त)था द्रव्यसामान्येन पर्यायसामान्येन च युगपदवक्तव्यः, स्यादस्ति च नास्ति चावक्तव्यश्चात्मेति । भावना तु द्रव्याथोत् सति द्रव्यत्वे देहेन्द्रियादिव्यतिरिक्तात्मत्वेन विशेषेण नास्ति
त्वमतोऽस्ति च नास्ति च स एवात्मा, द्रव्यपर्यायसामान्यसदसत्त्वाभ्यां सप्तमो विकल्पः युगपदवाच्य इति । एवमर्थानुरोधाद् विवक्षावशाच्च सप्तधैव वचनप्रवृत्तिः,
__ नान्यथाऽपि, प्रवृत्तिनिमित्ताभावात्, एष च मार्गो द्रव्यार्थपर्यायार्थाश्रयः, तौ च सङ्ग्रहाद्यात्मको, सङ्ग्रहादयश्चार्थशब्दनयरूपेण प्रधाविताः, तत्र सङ्ग्रहव्यवहारर्जुसूत्रैरर्थनयैरों द्रव्यार्थपर्यायार्थौ तदाश्रयैषा सप्तभङ्गी । तत्र अनपेक्षितोपदेशकशब्दव्यापारमिन्द्रियानिन्द्रियनिमित्तमर्थरूपोत्पादितं मतिज्ञानम्, अर्थनया वक्तृपरिच्छेदविषयाः, ते त्वर्थपृष्टेनैवार्थं गमयन्ति । शब्दनयास्तु साम्प्रतिकसमभिरूढैवंभूतनयाः श्रोतृविषयाः श्रुतज्ञानात्मकाः शब्दरूपरूपितविज्ञानत्वाच्छब्दप्रमाणकाः, यच्छब्द आह यथा च तथैवार्थ इति शब्दपृष्टेनाथेपरिच्छेदं कुर्वन्ति, अत एवैतेष्वभिधानस्वरूपशुद्धिपरा चिन्ता, चक्षुर्विमलीकरणाञ्जनवत् । तत्रार्थनयाः सत्त्वासत्त्ववर्तमानसत्त्वमात्रैषिणः प्रत्येकात्मकाः संयुक्ताश्च सप्तविधवचननिवेचनप्रत्यलाः । विविक्तसत्त्वमात्र रिग्रहात् सत्त्वसङ्ग्रहः, अन्यासत्त्वमेव सत्त्वमिति व्यवहारः, वर्तमानप्रधानत्वाद् वर्तमान मेव सत्त्वमृजुसूत्रः । तत्र स्यादस्तीति सङ्ग्रहः १ स्यानास्तीति व्यवहारः २ सङ्ग्रहव्यवहारयोगात् स्यादवक्तव्यः ३ सङ्ग्रहव्यवहारविभागसं
__योगादेव स्यादस्ति च नास्ति च ४ स्यादस्त्यवक्तव्यश्चेत्यत्र सङ्ग्रहः नयत्रयापेक्षया सङ्ग्रहव्यवहारौ चाविभक्तौ ५ स्यानास्त्यवक्तव्यश्चेत्यत्र व्यवहारः सनसप्तभङ्गी हव्यवहारौ चाविभक्तौ ६ स्यादस्ति नास्त्यवक्तव्यश्चेत्यत्र विभक्तौ सङ्कह
व्यवहारावविभक्तौ वा७,इत्येवमर्थपर्यायैः सप्तधा वचनव्यवहारः। व्यञ्जनपर्यायाः शब्दनयास्ते त्वभेदभेदद्वारेण वचनमिच्छन्ति, शब्दनयस्तावत् समानलिङ्गानां समानवचनानां च शब्दानामिन्द्रशक्रपुरन्दरादीनां वाच्यं भावार्थमेवाभिन्न मभ्युपैति, न जातुचिद् भिबलिङ्गं भिन्नवचनं वा शब्दं स्त्री दारास्तथाऽऽपो जलमिति, समभिरूढस्तु प्रत्यर्थ शब्दनिवेशादिन्द्रशक्रादीनां पर्यायशब्दत्वं न प्रतिजानीते, अत्यन्तभिन्नप्रवृत्तिनिमित्तत्वाद् भिन्नार्थत्वमेवानुमन्यते, घटशकादिशब्दानामिवेति, एवंभूतः पुनर्यथासद्भावं वस्तु वचसो गोचरमापृच्छ
तीच्छति, चेष्टाविष्ट एवार्थो घटशब्दवाच्यश्चित्रालेखनोपयोगपरिणशब्दनयाः तच चित्रकारः, चेष्टारहितस्तिष्ठन् घटो न घटशब्दवाच्यः, तच्छब्दा
र्थरहितत्वात्, कुटशब्दवाच्यार्थवत्, नापि भुञ्जानः शयानो वा चित्रकाराभिधानाभिधेयश्चित्रज्ञानोपयोगपरिणतिशून्यत्वाद् गोपालादिवत्, एवमभेदभेदार्थवाचिनोज्ने
१. अन्यासस्वमिति' इति क-पाठः । २ 'श्चैत्रालेख्यतोपयोग' इति क-ख-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org