________________
४१६ तत्वार्थाधिगमसूत्रम्
[ अध्यायः ५ सकलस्य वस्तुनो बुद्धिच्छेदविभक्तोऽवयवो देशस्तस्मिन् देशे आदेशो देशादेशस्तेन देशादेशेन विकल्पनीयं-व्याख्येयम्,आत्मादितत्त्वमित्येवं विकल्पचतुष्टयस्यापि ग्रहणम् । तत्र चतुर्थ उभयप्रधानो विकल्पः, क्रमेणोभयस्यापिशब्देनाभिधेयत्वात्, देशादेशो हि विकलादेशस्तस्य वस्तुनो वैकल्यं, स्वेन तत्त्वेनाप्रविभक्तस्यापि विविक्तं गुणरूपं स्वरूपेणोपरञ्जकमपेक्ष्य प्रतिकल्पितमंशभेदं कृत्वाऽनेकान्तात्मकैकत्वव्यवस्थायां नरसिंहनरसिंहत्ववत् समुदायात्मकमात्मरूपमभ्युपगम्याभिधानं विकलादेशः, न तु केवलसिंहसिंहत्ववदेकात्मकैकत्वपरिग्रहात् , यथा च प्रतिपादनोपायार्थपरिकल्पितानेकनीलपीतादिभागा निर्विभागमनेकात्मकमेकं चित्रं सामान्यरूपमुच्यते, तथा वस्त्वप्यनेकधर्मस्वभावमेकम् , दृष्टश्वामिमात्मनोऽर्थस्य भिन्नो गुणो भेदकः, परुद्भवान् पटुरासीत् पटुतर ऐषमोऽन्य एवाभिसंवृत्तः, पटुत्वातिशयो गुणः सामान्यपाटवाद् गुणादन्यः, स वस्तुनो भेदं कल्पयति, भिन्नप्रयोजनार्थिना तथाश्रितत्वात्, अनेकात्मकं चैकत्वमात्मादेः, यतोऽनेकं शुद्धाशुद्धं द्रन्यार्थमाश्रित्य पर्यायनयं चैकात्मनो वृत्तिस्तथात्मकोऽसौ तद्भावभावित्वाद्, घटमृदात्मकत्ववत् पुरुषपाण्याद्यात्मकत्ववद् वा, अतस्ते तस्यारम्भकत्वाद् भागाः पुरुषस्येव पाण्यादयो वस्त्वंशमनुभवन्ति क्रमेण वृत्ताः क्रमयोगपद्याभ्यां वा, चतुर्थे तावत् समुच्चयात्मके न क्रमेण प्रत्ताः, पञ्चमषष्ठयोरपचितक्रमयुगपद् वृत्ताः, सप्तमे प्रचितक्रमयोगपद्याभ्यां वृत्ताः संश्वासंधावक्तव्यश्चेत्यनेकर्बुद्धिबुद्धित्वाद् अनेकबुद्धिर्हि बुद्धिर्भवति द्रव्यपर्यायेषु सत्सु ज्यात्मिका, यतोऽनेकां सद्रूपामसद्रूपामवक्तव्यरूपां च बुद्धिं भिन्नामिव क्रमवतीमिवाश्रित्याभिन्नैकाक्रमावस्तुरूपा वाक्यार्थबुद्धिर्भवति, तस्माद् भेदक्रमप्रतिभासविज्ञानहेतुत्वाद् भागास्ते भवन्त्यत्राविभक्तस्यैकस्यापि वस्तुनः । एवं चानेकस्वभावेऽर्थे सति वक्तुरिच्छावशात् कदाचित् केनचिद्
रूपेण वक्तुमिष्यते, विवक्षायत्ता चे वचसः सकलादेशता विकलादेशता सकलादेशविकला-च द्रष्टव्या, द्रव्यार्थजात्यभेदात् तु सर्वद्रव्यार्थभेदानेवैकं द्रव्याथै मन्य
पशात्यात ते, यदा पर्यायजात्यभेदाश्चैकं पर्यायार्थ सर्वपर्यायभेदान् प्रतिपद्यते तदा स्वविवक्षितस्वजातिभेदत्वात् सकलं वस्त्वेकद्रव्याभिन्नमेकपर्यायार्थाभेदोपचरितं तद्विशेषैकाभेदोपचरितं वा तन्मात्रमेकमद्वितीयांशं ब्रुवन् सकलादेशः स्यानित्य इत्यादिस्त्रिविधोऽपि नित्यत्वानित्यत्वयुगपद्भावैकत्वरूपैकार्थाभिधायी, यदा तु द्रव्यपर्यायसामान्याभ्यां तद्विशेपाभ्यां वा तद्योगपद्येन वा वस्तुन एकत्वं तदतदात्मकं समुच्चयाश्रयं चतुर्थविकल्पे स्वांशयुगपदवृत्तं क्रमवृत्तं च पञ्चमषष्ठसप्तमेधूच्यते तथाविवक्षावशात् तदा तु तथाप्रतिपादयन् विकलादेशः, ते हि द्रव्यपर्यायास्तस्य देशाः तदादेशेनादेश एको अनेकदेश आत्माभिधीयते, तत्र द्रव्यार्थसामान्येन तावद्वस्तुत्वेन सन्नात्मा, पर्यायसामान्येनावस्तुत्वेनासमिति, विशेषस्त्वात्मनि स्वद्रव्यत्वात्मस्वचेतनत्वद्रष्टुत्वज्ञातृत्वमनुष्यत्वादिरनेको द्रव्यार्थभेदः,तथा श्रतप्रतियोगिनः
१ तच्च व० ' इति ग-पाठः। २ रूपमस्याभिधानं ' ३ ' वस्स्वनेक ' इति क-पाठः । ४ । नेकबुद्धित्वात् ' इति क-पाठः। ५'च सकला' इति क-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org