________________
सूत्रं ३१] स्वोपज्ञभाष्य-टीकालङ्कृतम्
४१५ इदानीमवक्तव्यताविभावनायाह
भा०-तदुभयपर्याय वा, तदुभयपर्याययोर्वा, तदुभयपर्यातृतीयो विकल्पः येषु वा, आदिष्टं द्रव्यं वा, द्रव्ये वा, द्रव्याणि वा, न वार्य
सदसदिति वा। टी०–तदुभयपर्याये वेत्यादि । तदित्यतिक्रान्तद्वयपरामर्शः, सद्भावासद्भावपर्यायद्वयसम्परिग्रहार्थः, उभयश्चासौ पर्यायश्च उभयपर्यायोऽस्तित्वनास्तित्वलक्षणः स चासावुभयपर्यायश्च तदुभयपर्यायस्तदुभयपर्यायनिमित्तस्तद्विषयो वाऽप्यादेशस्तेनार्पितमात्मतत्त्वमस्तिनास्तिरूपेण युगपद्विवक्षायामुक्तप्रकारभावनया न शक्यं वक्तुमित्यवाच्यम्, ताभ्यामुभयपर्यायाभ्यामादिष्टं युगपदात्मरूपं द्रव्यं वेत्यादि विकल्प्यते, न वाच्यं सदित्यसदिति वा सद् द्रव्यमसद् वा द्रव्यं न वक्तव्यम्, क्रमेण त्वादेशे भवत्येतदेवम्, सहभावार्पणायां तु न सच्छब्दवाच्यं नासच्छब्दाभिधेयम्, एकस्मिन् काले तादृग्विधवाचकशब्दाभावात् ॥ ननु च तदुभयपर्याये वेत्येकवचनमनुपपन्नम्, एकपर्यायविवक्षायामवक्तव्याभावात् । अत्रोच्यते-उभयग्रहणाद् द्वयमत्र गृह्यते । एवं तर्हि तदुभयपर्याययोर्वेत्यस्मादविशेषः , नैतदेवम् , यतस्तदुभयपर्याये विशेषविवक्षयाऽस्तित्वं हि वपर्यायविषयं परपर्यायविषयं चेत्युभयपर्यायस्तत् तु स्वपयोयेणावच्छिद्यमानमिहास्तीति गृह्यते, तदेव च परपर्यायेणावच्छिद्यमानमात्मनि नास्तीति ग्राह्यमिदानीमुभयपर्यायो युगपदर्पणायां भवत्यवक्तव्यः, इतरत्र तु प्रधानभेदव्याख्यायां द्विवचनादिनिर्देशः समीचीनः, जातिविवक्षायां वा जातेरेकत्वादेकवचनसिद्धिरिति ॥
एवमेते त्रयः सकलादेशा भाष्येणैव विभाविताः सङ्ग्रहव्यवहारानुसारिण आत्मद्रव्ये, सम्प्रति विकलादेशाश्चत्वारः पर्यायनयाश्रया वक्तव्यास्तत्प्रतिपादनार्थमाह भाष्यकार:
भा०-देशादेशेन विकल्पयितव्यमिति ।
टी----इतिकरणो विकल्पेयत्ताप्रतिपादनार्थः। पर्यायास्तिकमिति नपुंसकलिङ्गप्रकान्तेर्विकल्पयितव्यमित्याह, किं पुनः कारणं भाष्यकृता सकलादेशत्रयवदितरेऽपि चत्वारो विकलादेशा भाष्येण नोक्ता इति । अयमभिप्रायो भाष्यकारस्य लक्ष्यते-सकलादेशसंयोगाच्चतुर्णा निष्पत्तिरिति सुज्ञानाः, तत्राद्यद्वितीयविकल्पसंयोगे तुर्यविकल्पनिष्पत्तिः स्यादस्ति च
__नास्ति चेति । प्रथमतृतीयविकल्पसंयोगे पञ्चमविकल्पनिष्पत्तिः स्यादपर्यायादेशविकल्पाः स्ति चावक्तव्यश्चेति । द्वितीयतृतीयविकल्पसंयोगे षष्ठविकल्पनिष्पत्तिः
स्यानास्ति चाक्तव्यश्चेति । प्रथमद्वितीयतृतीयविकल्पसंयोगे सप्तमविकल्पनिष्पत्तिः स्यादस्ति च नास्ति चावक्तव्यश्चेति । तत्रायेषु त्रिषु विकल्पेषु सकलमेव द्रव्यमादिश्यते, चतुर्थादिषु पुनर्विकल्पीकृतं खण्डश आदिश्यते । तदाह-देशादेशेनेत्यादि ।
१ 'किं कारणं पुनर्भाष्यकृता' इति क-ख-पाठः । २ — विकलीकृतं ' इति क-ख-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org