________________
सूत्र ३१] स्वोपक्षभाष्य-टीकालङ्कृतम् अर्पितं विशेष्यते, कीदृशेर्पिते १ अनुपनीते, कथमनुपनीते ? सामर्थ्यात् क्रमेणाविशेषिते, क्रमेण त्वर्पणे प्राच्यविकल्पावेव स्याताम् , अतोऽवश्यतया युगपदमिन्ने काले द्वाभ्यां गुणाभ्यामेकस्यैवार्थस्याभिमस्य प्रतियोगिभ्यामभेदरूपेणैकेन शब्देनावधारणात्मकाभ्यां वक्तुमिष्टत्वादवाच्यम् , तद्विधस्यार्थस्य शब्दस्य चाभावात् , अयं च विकल्पस्तत्त्वान्यत्वसत्त्वासम्भवात् कि
लावक्तव्यमेवेत्येवंविधैकान्तव्यावर्तनार्थः स्यादवक्तव्य एवात्मा, अवअवक्तव्यत्वम् क्तव्यशब्देनान्यैश्च परे भिर्वचनैर्द्रव्यपर्यायविशेषैश्च वक्तव्य एव , अन्यथा
सर्वप्रकारावक्तव्यतायामवक्तव्यादिशब्दैरप्यवाच्यत्वादनुपाख्यः स्यात् , अतीतविकल्पद्वयं त्वेकान्तास्तित्वैकान्तनास्तित्वप्रतिपक्षनिराकरणद्वारेण स्यादस्ति स्यानास्तीति स्वपरपर्यायान्यतरैकधर्म सम्बन्धार्पणात् कालभेदेनोक्तम् , अधुना युगपद् विरुद्धधर्मद्वयसम्बन्धार्पितस्य च वस्तुरूपस्याभिधानात् कीदृशः शब्दप्रयोगो भवतीति ? उच्यते-न खलु तादृशः शब्दोऽस्ति यस्तादृशीं विवक्षां प्रतिपूरयेत् , यतोऽर्थान्तरवृत्तैः पर्यायैरवर्तमानमैननुभवस्तान पर्यायान् द्रव्यं ब्रवीतीत्येका विवक्षा, अपरा तु विवक्षा निजैः पर्यायैः स्वात्मनि वृत्तैवर्तमानमनुभवन् स्वान् पर्यायान् द्रव्यमभिदधातीति , एवमेतयोर्विवक्षयोः परस्परविलक्षणत्वाद् विरुद्धत्वाच्च द्वाभ्यामपि युगपदादेशे पुरुषस्यैकस्यैकत्र द्रव्ये नास्ति सम्भवो वचनविशेषातीतत्वाचावक्तव्यं वाचकशब्दाभावात् । एतदुक्तं भवति–अस्तित्वनास्तित्वयोर्विरुद्धयोरेकत्राधिकरणे काले च सम्भव एव नास्तीत्यतस्तद्विधस्यार्थस्याभावात् तस्य वाचकः शब्दोऽपि नास्त्येवेति १॥ तथा कालाद्यभेदेन वर्तनं गुणानां युगपद्भावस्तच्च योगपद्यमेकान्तवादे नास्ति, यतः कालात्मरूपार्थसम्बन्धोपकारगुणिदेशसंसर्गशब्दद्वारेण गुणानां वस्तुनि वृत्तिः स्यात् , तत्रैकान्तवादे विरुद्धानां गुणानामेकस्मिन् काले न कचिदेकत्रात्मनि वृत्तिदृष्टा, न जातुचित प्रविभक्ते सदसत्त्वे स्त एकत्रात्मन्यसंसर्गरूपे येनात्मा तथोच्येत, ताभ्यां विविक्तश्च परस्परगु
णानामात्मस्वभावो नान्योन्यात्मनि वर्तते, ततश्च नास्ति युगपदभेदेनाकालादयो वृत्तिहेतवः भिधानम् २ ॥ न चैकत्रार्थे विरुद्धाः सदसत्त्वादयो वर्तन्ते, यतोऽह्य
भिन्नैकात्माधारत्वेनाभेदे सति सदसत्त्वे युगपदुच्येयाताम् ३॥ न च सम्बन्धाद् गुणानामभेदः, सम्बन्धस्य भिन्नत्वात् , छत्रदेवदत्तसम्बन्धाद्धि दण्डदेवदत्तसम्बन्धोऽन्यः, सम्बधिनोः कारणयोर्भिन्नत्वात् , न तावेकेन सम्बन्धेनाभिन्नावेव, सदसतोरात्मना सह सम्बन्धस्य भिन्नत्वात् , न सम्बन्धकृतं योगपद्यमस्ति, तदभावाच्च नैकशब्दवाच्यत्वम् ४॥ न चोपकारकृतो गुणानामभेदः, यसान्नीलरक्ताद्युपकर्तृगुणाधीन उपकारः, ते च स्वरूपेण भिन्नाः सन्तो नीलनीलतररक्तरक्ततरादिना द्रव्यं रञ्जयन्ति विविक्तोपकारभाजः । एवं सदसत्त्वयोर्भेदात् सत्त्वेनोपरोक्तं सत्, असत्त्वोपरक्तमसदिति दूरापेतमुपकारसारूप्यम्, यत
१ 'सत्त्वान्यत्व' इति क-पाठः। २ 'युगपत्तया विवक्षितादन्यैः द्रव्यविशेषपर्यायविशेषवाचकैः शब्दैः । ३ स्यादस्तीत्यादिरूपैरेतद्वक्तव्यव्यतिरिक्तः । ४. 'मनुभवन्' इति क-पाठः । .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org