________________
तत्वार्थाधिगमसूत्रम्
[ अध्याय: ५
प्रतिपादिते गम्यत इदं - द्रव्यक्षेत्रकालभावान्तरसम्बन्धितया नास्त्यात्मा । यदि च सर्वद्रव्यत - ess मा स्याद, आत्मैवासौ न भवेत्, द्रव्यत्ववत्, सर्ववृत्तितया वा, स्वद्रव्यादिना सत्त्वम् तद्रूपतया च सर्वकालसम्बन्धित्वाद् व्योमवन्मनुष्यभावे वा समस्तनारकोदिभावप्रसङ्ग एकान्तवादिनाम्, अतोऽवश्यं स्वद्रव्यादित्वेनैवास्तित्वमभ्युपेयम्, नान्यद्रव्यादित्वेन ।। ततश्च स्वैरस्तित्वात् परैश्च नास्तित्वात् स्यादस्ति स्यान्नास्तीति, स्वपरमात्रभावाभावो भयाधीनत्वादात्मास्तित्वस्य यथैव स्वास्तित्वादस्तीत्युच्यते, 'तथैव परनास्तित्वान्नास्तीत्यपि वाच्यम्, न च प्रकारान्तरमस्ति किञ्चिदेकान्तवादिनां यदाश्र
नावष्टम्भप्रतिबन्धः स्यादिति नास्तित्वमस्तित्वानपेक्षमत्यन्तशून्यं वस्तु प्रतिपादयेदन्वयाप्रतिलम्भाद् अस्तित्वमपि नास्तित्वानपेक्षं सर्वरूपं वस्तु गमयेत् व्यतिरेकाप्रतिलम्भात्, न च सता सर्वाभावरूपेण सकलभावरूपेण वा भूयते, अतः सर्वदाऽस्तित्वं नास्तित्वसापेक्षं 'नास्तित्वं चास्तित्वापेक्षमेवात्मलाभमासादयति, एवं चात्मनि नाप्रसक्ता घटादिसत्ता निषिध्यते अर्थात् प्रकरणाद् वा घटादिसत्तानिषेधश्वात्मनो धर्मस्तदधीनत्वाअस्तिनास्तिरूपता दात्मस्वभावस्य स एव च परेण विशेष्यमाणत्वात् परपर्याय उच्यते, गव्यनश्वत्ववत्, आत्मना विशेष्यमाणत्वादात्मपर्यायः, स्वपरविशेषणायत्तं हि वस्तुस्वरूपप्रकाशनम्, अनेकान्तवादे च स्यादस्त्यात्मेत्यादिभिः सप्तभिर्वाक्यैरभिधीयते वस्तु प्रत्येक'यापदप्रयोगेणार्थपरिसमाप्तेः, आत्मेति द्रव्यवाची विशेष्यत्वात्, अस्तीति गुणाभिधायी विशेषणत्वात्, शब्दशक्तिस्वाभाव्याच्च तथा प्रतीतेः, बुद्धयारूढस्योपचरितसत्ताकस्य मुख्यसत्वविशेषणत्वेनोपात्तस्य धर्मिण उपादानादसत्त्वे इव, स्याच्छब्दस्तु द्रव्यधर्म लिङ्गसङ्ख्याभेदवियुक्तत्वादसिप्रकृतिर्विध्यादिविषयस (म ) द्विभक्तिप्रथमपुरुषैकवचनान्तप्रतिरूपको निपातो विधिविचारणास्तित्वविवादाने कान्तसंशयाद्यर्थवृत्तिः, तस्य चानेकान्तावद्योतनमेवार्थो विवक्षितः, केवलस्य च सामान्यविषयत्वावद्योतकत्वाद् विवक्षितार्थप्रतिपादनाय द्रव्यधर्मविशेषोपादानं, तन्नान्तरीयकत्वात्, निपातानां चापरिमितत्वादनेकान्तद्योतकतया विवक्षितत्वादिति, स्याच्छब्देनानेकान्ताभिधानादाक्षेपेऽपि सप्तभयाः पुनर्भेदेनोपादानं विशिष्टार्थप्रतिपादनाय, यथा वृक्षशब्देन सामान्यविषयेणाक्षेपेऽपि धवादीनां विशेषप्रतिपिपादयिषया धवादिशब्दोपादा"नम्, एवमेतदपि दृश्यम्, भेदाप्रतिपत्तेर्विवक्षित भेदप्रतिपादनाय भेदपरिमाणनियमाभिधानाय वा सामान्यलक्षणप्रपञ्चवव्याख्यानाय वा सङ्क्षेपव्यासाभिधानम्, तत्रास्तित्वनास्तित्वैकान्तनिवारगाय प्रथमद्वितीयौ, एकान्तरूपस्यार्थस्यावस्तुत्वादिति । तृतीयविकल्पाभिधित्सया भाष्यकृदाहभा०- अर्पितेऽनुपनीते न वाच्यं सदित्यसदिति वा ।
टी० – युगपदात्मन्यस्तित्वनास्तित्वधर्माभ्यामर्पिते विवक्षिते क्रमेण चानुपनीते क्रमेणाभिधातुमविवक्षिते वाच्यं न जातुचित् सदात्मतस्वम सदात्मतत्त्वमिति वा । वाशब्दो विकल्पार्थः,
१' कादिप्रसज्ञ' इति क-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org