________________
४०२ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ५ पर्यायनयपरिग्रहः, तदेवं चतुर्भिरपि विकल्पैर्नयद्वयी प्रतिपिपादयिषिता, एवं तर्हि द्रव्यादिचतुष्टयी किमर्थेति चेत्, तदुच्यते-उभयनयस्वभावप्रदर्शनार्था चतुष्टयी । एवमेतान्यन्यव्याख्यानान्यालोच्य भाष्यं कथमपि गमनीयम्, स्वव्याख्यानानुसारेण तावदुच्यते पर्यायनयश्चोत्पादविनाशाद् द्वैविध्यप्रदिदर्शयिषया भाष्यकारेणोपचक्रमे, उत्पन्नास्तिकं पर्यायास्तिकमिति। स एष पर्यायनयमहाविटपी प्रौढदृढानवद्यर्जुसूत्रनयादभ्रस्कन्धः सुप्रतिष्ठिताधारनानागमगहनशब्दनयशाखस्तदाश्रयसमभिरूढैवंभूतविविधविकल्पप्रशाखोऽर्थशब्दज्ञानशून्यताङ्कुरपत्रपुष्प
फलोपशोभितः पर्यायप्रधानत्वादुत्पादविनाशमात्रजलावसेकसंवर्धनीयः ऋजुसूत्रादिभिः प्रतन्यते, तत्रर्जुसूत्रः कुटिलातीतानागतपरिहारेण वर्तमानक्षणावच्छिपर्यायपक्षः नवस्तुसत्तामात्रमृजुं सूत्रयति-अन्यतो व्यवच्छिनत्ति सूत्रपातवत्,
न घतीतमनागतं वास्ति, यदि स्यातामतीतानागते न तर्हि मृतपुत्रिका युवतिः पुत्रकमुद्दिश्य रुद्यात्, न च पुत्रार्थिनी योषिदौपयाजिकादिविशिष्टदेवतासभिधौ विदध्यात्, तद्धि वस्तु वर्तमानक्षणावस्थाय्येव, न जातुचित् ततः परं सत्तामनुभवति, नाप्यतीतकालासादितात्मलाभं किञ्चित् तत्रान्वेति, स्वकारणकलापसामग्रीसन्निधावुत्पाद्य स्वरसभ
गुरतामवलम्बन्ते तत्क्षणमात्रावलम्बिनः सर्वसंस्काराः। एवं च सति य एते कर्तृभूतद्रव्यशब्दसन्निधौ क्रियाशब्दाः प्रयुज्यन्ते यथा देवदत्तः पचति पठति गच्छतीति कर्मभूतद्रव्यशब्दसनिधौ वा यथा घटो भिद्यते घटं वा भिनत्तीत्येवमादयो न यथार्थाः, कथम् ? यतो नामशब्देनाविकृतरूपस्य द्रव्यस्याभिधानात् , क्रियाशब्देन च विकारस्य प्रतिपाद्यत्वात्, न च विकाराविकारयोरैकाधिकरण्यमस्ति, विरुद्धत्वात् , अर्थप्रत्यायनाय हि प्रयुक्तः शब्दो विरुद्धमर्थ प्रतिपादयनैव सम्यग्ज्ञानमाधत्ते, अयथार्थत्वात् , मृगतृष्णायां सलिलशब्दवदिति उक्तार्थसंवादी च श्लोको गीतः पुराविदा
"पलालं न दहत्यग्नि-भिद्यते न घटः कचित् ।।
नासंयतः प्रव्रजति भव्यो-ऽसिद्धो न सिद्धयति ॥ पलालं दह्यत इति यद् व्यवहारस्य वाक्यं तद् विरुध्यते, अत्र वाक्ये वाक्यार्थप्रतिपत्तये पदार्थप्रविभागकाले पलाल शब्दो विशिष्टाकारद्रव्यवचनो नाम शब्दः तद्धि द्रव्यं यावद तस्मिन्नेवाकारे वर्तते तावदेव पलालशब्दवाच्यम् , अन्यदा तु पलालभावेन तस्याभाव एव, तद्भावेनाभावात् पटवत् , तस्मात् स्थिररूपमव्यापारसुदासीनमविकृतं पलालशब्देन वस्तु प्रतिपादितम् , कथं तदेव दह्यत इत्यनेन शब्देनोच्येत ? क्रियाशब्दस्य विकाराभिधायित्वात् , न हि स एवार्थो विकारश्चाविकारश्च भवितुमुत्सहते, यदि हि तत् पलालं न तर्हि तदेव दह्यते, अविपरिणतत्वात् , प्रागवस्थावत् , विपरिणममानं च पलालमेव तन्न भवति, विषरिणामशब्दस्य भावान्तरवाचित्वात् , तस्माद् यावत् तत् पलालं तावन्न दह्यते, यदा दह्यते
१ 'सिद्धयते' इति क-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org