________________
सूत्र ३१]
स्वोपज्ञभाष्य-टीकालङ्कृतम् नानेकपर्यायोपघ्नास्तद्विपरीतपर्यायाश्रयाश्च तत्र तत्र व्यवहियन्ते व्यवहारार्थिमिः, अतो मातकापदमेवास्ति व्यवहारयोग्यत्वात्, न शेषमिति व्यवहारनयाभिप्रायः । सङ्ग्रहव्यवहारौ च प्रत्येकं शतभेदत्वादनेकमुखौ, व्यवहार इति चान्वर्थसंज्ञत्वादेवास्य नयस्य, अवहरणमवहारः, कस्य ? एकसत्त्वस्य, केन ? विशेषेण-घटादिना, नानासत्त्वेन लोकयात्रासिद्धेः॥ ।
___ अधुना द्रव्यास्तिकमातृकापदास्तिकाभिहिताविशिष्टवस्तुप्रतिक्षेपेण भेदा एव वस्तुत्वेनावधियन्ते पर्यायनयेन, अनवरतोत्पादविनाशप्रवाहमात्रमेव वस्तु सकलव्यवहारनिबन्धनम्, न
तु स्थितमस्ति किञ्चित्, आत्मभावलक्षणानन्तरविनाशित्वान्न किश्चित् पर्यायपादिमतम् केनचिदेकेनाभिन्नेन स्थित्यंशेनाववध्यमानं सम्भाव्यते, तत्राशेषस्थूल
सूक्ष्मोत्पादकलापस्य प्रतिपादकमुत्पन्नास्तिकमुत्पन्नेऽस्तिमति, नानुत्पन्ने वान्ध्येयव्योमोत्पलादाविति, योऽप्यात्मलाभक्षणोऽस्ति सन्नित्येवंविधशब्दवाच्यः सोऽप्यभूतप्रादुर्भावः प्राय नासीत् पश्चालब्धात्माऽस्ति सन्नित्यादिशब्दव्यपदेश्यः, न तु भूत्वाऽस्तिमनुभवनस्तीत्याख्यायते',क्रियायाः कृतकत्वात् पचत्यादिवत्, कर्तुश्च तत्सम्बन्धेन कर्तृत्वप्रतिलम्भस्य कृतकत्वान्न स्थितसत्ताकमेकमस्ति किश्चित्, प्रथमक्षणविलक्षणाश्चोत्तरोत्तरक्षणाः सन्तानाकारेणोपजनमासादयन्ति । तथा पर्यायास्तिकमित्युत्पत्तिमतोऽवश्यं विनश्वरत्वाद् यावन्त उत्पादास्तावन्त एव विनाशा इति विनाशेऽस्तिमति पर्यायास्तिकम् , पर्यायो भेदो विनाशलक्षणः सोऽस्त्येवोत्पमस्येति, पर्यायो हि विनाशपर्यायः, यथा प्राप्तपर्यायो देवदत्त इति, समस्तविस्रसाप्रयोगापादितविनाशसूचनाकारि च पर्यायास्तिकम् । अपरे तु वर्णयन्त्यन्यथा उत्पन्नास्तिकं पर्यायास्तिकं च, तत्र सामग्रीग्रहणादेकद्रव्यभाविनां पर्यायाणां कालतोऽर्थतो वाऽप्यव्यभिचारिणां यत्र व्यपदेशस्तदुत्पन्नास्तिकं सिध्यमानसिद्धवत्, यथा सिध्यमानः सिद्ध इति कालतोऽर्थतश्चाव्यभिचारी शब्दः, तथैकद्रव्यभाविनां पर्यायाणामयुगपदवृत्तीनां युगपदग्रहणात सामग्रीग्रहणाच यत्र व्यपदेशः स पर्यायदेशः, यथा स्पर्शादिमतां पुद्गलानामिन्द्रिययुगपदग्रहणादपि व्यपदेशः क्रियते स्पर्शरसगन्धवर्णवन्तः पुद्गला इति । अपर व्याचक्षते
" तेषामुत्पादसम्भक्ते-रुत्पन्नास्तिकदेशना ।
उत्पद्यमानाः पर्यायाः, पर्यायास्तिकमुच्यते ॥" तेषामिति । द्रव्यमातृकापदास्तिकभेदानामुत्पादयोगादुत्पन्नास्तिकदेशना, पर्यायनयस्यानुस्पबेन व्यवहाराभावात् तदानीमेव सन्, न ह्यनुत्पन्नाः केचिद् द्रव्यादयः सन्ति, अतीतानागतवर्तमानेष्वविशेषात्, यदा पुनरुत्पादसमावेशिनो वर्तमानकालावच्छिन्नाः पर्याया विवक्ष्यन्ते तदोत्पद्यमानावस्थायां पर्यायास्तिकमुच्यते । अन्ये त्वभिदधति-न मातृकापदास्तिकं द्रव्यास्तिकाद् मियत इति द्रव्यनयपरिग्रहः, पर्यायास्तिकं च नोत्पन्नास्तिकाद् विविच्यत इति
१' लाभे क्ष० ' इति क-पाठः । २ . भूयांसि म० ' इति क-न-पाठः । ३ अत्र 'क्रियते' इत्यधिकः क-पाठा। ४'णादिक' इति क-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org