________________
३९६ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ५ एव । अथोष्णस्य प्रतियोगी .शीत एवानुष्ण इति गृह्यते; रिक्तं शक्यमेतदपि, अनुष्णाशीतस्याप्युष्णग्रहणे प्रतिक्षिप्यमाणत्वात् , तसादुष्णपर्यायोऽनुष्णपर्यायेण प्रतिपक्षेण सहैकत्रैकदा च दृष्ट इति । न च वध्यघातकासहावस्थानविरोधयोर्विशेषः कश्चिदस्ति, अहिनकुलयोर्हि संयोगे योऽहेर्जीवनपर्यायः स मरणपर्यायेण सह नावतिष्ठते इत्यसहावस्थानलक्षण एव विरोधः, तथाऽग्निजलयोः सति संयोगे कदाचिदुष्णपर्यायस्य शीतपर्यायेण सहानवस्थानं बहुजलमध्यप्रक्षिप्तस्यैकस्याङ्गारशकलस्य, कदाचिच्छीतस्यानवस्थानं प्रवृद्धज्वलनज्वालाप्रतप्तवारिणीति । वध्यघातकलक्षणः प्राणिविषय इति चेत् , न, असहावस्थानलक्षणस्यापि कस्यचित् प्राणिविषयत्वेन दर्शनात् ॥ अथैककालविषययोर्वध्यघातकविरोध इति चेत्, न, असहावस्थानलक्षणेऽपि विरोधे यदा श्यामतापैति पीतता चोत्पद्यते तदा विगमप्रतिपत्त्योरेकः कालोऽतः शब्दार्थोऽपि न सङ्गच्छते सहानवस्थानमिति, तस्मान्नास्ति विरोधः॥ .. अथ द्वितीयपक्षमाश्रयते-कालान्तरावस्थायित्वे सति दृष्टयोरेकत्रान्यतरस्यानवस्थानमुभयानवस्थानं वा विरोध इति, सोऽप्यसङ्गतः, कालान्तरावस्थायितायामेकत्र तावन्न विरोधः। उत्तरकालमनवस्थानोपलब्धेविरोध इति चेत् , एवं सति न कस्यचित् स्त्रीमनुष्यबलीवर्दादेविरोधः स्यात् , तसादुपेक्ष्यः । नापि प्रतिवन्ध्यप्रतिबन्धकमावलक्षणो विरोधः सदसतोर्नित्यानित्ययोवों, अभिन्नकालमेकत्रात्मद्रव्ये किल धर्माधर्मावुभावपि स्तः, तयोश्चैकस्य
प्रधानभावोऽन्यस्य गुणभावः, प्रधानगुणभावे चैकत्र द्वयमप्यस्तीति को एकत्रानवस्थानादि- विरोधः १॥ अथैवं मन्येथाः-धर्मस्य फलमधर्मफलेन प्रतिबद्धमधर्मफलं विरोधखण्डनम् च धर्मफलेन प्रतिबद्धमेष विरोध इति, यदैकस्य प्रधानभावस्तदैव न
तस्य गुणभावः, प्रधानता चोद्भूतविपाकावस्थया गुणभावोऽप्यनुभूतविपाकावस्थयेति, एतदप्ययुक्तम्, यस्मादेकत्रात्मन्येकदा धर्माधर्मफलोपभोगोऽभ्युपगम्यत एव जैनेन्द्रः, धर्माधर्मों पुण्यापुण्यलक्षणौ, पुण्यापुण्ये च पुद्गलात्मके, पुद्गलाश्च ज्ञानावरणादिभेदेन परिणताः, कर्म चतुर्विशत्युतैरप्रकृतिशतभेदम्, तत्र कर्मप्रकृतीनामशीतिय॑धिका पापमपुण्यमधर्म इति संज्ञाता, चत्वारिंशत् यधिका तु पुण्यं धर्म इति, तत्र कासाञ्चित् प्रकृतीनां पुण्याख्यानां पापप्रकृतीनां च युगपद् विपाकाभ्युपगमे कुतः प्रतिबन्ध्यप्रतिबन्धकमावलक्षणो विरोधः । अथापि स्यात् कासाञ्चित् प्रकृतीनां प्रतिबन्ध्यप्रतिबन्धकभावो यथा नरायुषः सुरायुषश्चैकदैकत्र विपाकाभावः, तत्रापि न कर्मणः सहावस्थानमनिष्टम्, किं तर्हि १ विपाकपर्याययोरसहावस्थितिः, नरायुर्विपाकपर्यायः सुरायुषो विपाकेन सह नावतिष्ठत इत्यसहावस्थानलक्षण एव, विगमप्रतिपत्त्योश्चैककालत्वाज्जातुचित् सहावस्थानमपीति । उपेत्य वा ब्रूमः-अस्त्वयं विरोधः प्रस्तुते वस्तुनि, न कश्चिद् दोषः, इष्यत एव
१ योऽहिजीवन' इति क-पाठः । २बन्धेविंशत्युत्तरशतभावेऽपि प्रशस्तेतरवर्णचतुष्कग्रहात् अधिकाश्चतस्रोऽत्र। ३ नरायुषो विगमः सुरायुषः प्रतिपत्तिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org