________________
सूत्रं ३१ ]
स्वोपज्ञभाष्य–टीकालङ्कृतम्
३९५
रोधः, संयोगस्यानेकाश्रयत्वात् द्वित्वादिवत्, न चासंयुक्तो नकुलः सर्पविनाशे प्रभुः, यदि स्यात् ततः समस्तत्रैलोक्योदरवर्तिसर्पाभावप्रसङ्गः, अभिजलयोरप्येवमेव भावना, वाडवाग्नेर्वारिधि - वारिणश्चैकत्रावस्थानं दृष्टमिति चेत्, हन्त हतस्तर्हि विरोधः, प्रकृतमुच्यते - संयोगे पुनः क्षणमात्रावस्थायिनोरुत्तरकालमेकस्य बलवत्वाद् घातकत्वे सतीतरस्य दुर्बलत्वाद् वध्यत्वे स्याद् विरोधः, न चैवं सदसतोर्नित्यानित्ययोर्वा क्षणमात्रमप्येकत्र वृत्तिस्त्वयाऽभ्युपेयते, गुणविषये संयोगाभावान्नापि समवायवृत्तिर्विरोधाभावप्रसङ्गात्, तस्मान्न नित्यानित्यसदसदादीनामेकवस्त्वाश्रयतायां वध्यघातकभावलक्षणो विरोधः समस्ति, नाप्यसहावस्थानलक्षणो विरोधः, सहि शीतोष्णवत् फलवृन्तसंयोग विभागवदाम्रफलादिषु श्यामतापीततावद वा, तथाहि शीतपfussaini प्राग् वा विद्यमानः पश्चादुपजायमानेनोष्णपर्यायेण सह नावतिष्ठते, तथोष्णः शीतेनोपजायमानेन सह विरुध्यते, न चैवं प्रागवस्थितं नित्यत्वमनित्यत्वेन पश्चात्कालभाविना विनाश्यते, तद्धि नित्यत्वमेव न स्यादध्रुवत्वात् नापि नित्यत्वेनोत्पत्तिभाजा पूर्वावस्थितमनित्यत्वं विनाश्यते, तत् तु नित्यत्वमेव न स्यादुत्पद्यमानत्वात् अपिच क्षणनश्वरेषु भावेषु न कदाचिदयं विरोधः समस्ति, नहि तत्रानित्यत्वस्य पूर्वमवस्थानम् तेन ह्यनित्यत्वेन नाशिते वस्तुनि निराधारस्य नित्यत्वस्याभाव एव, अवश्यंतयाऽसहावस्थानलक्षणविरोधवादिना तत्रान्यतरस्योत्पद्यमानता अन्यतरस्य च पूर्वावस्थितिरभ्युपेया, अन्यथाऽसहावस्थानलक्षणविरोधवाद्येव न स्यात्, येषामपि किञ्चित् कालं स्थित्वा घटो विनश्यति तैरपीदं वक्तव्यम् - यावदसौ न विनश्यति तावत् किं नित्यः उतानित्य इति १ । नित्यश्चेद् व्योमादिवदनुच्छेदप्रसङ्गः, इतरत्र त्वभावप्रसङ्गः, अवश्यमेव सता नित्येनानित्येन वा भवितव्यमेकान्तवादिनाम्, अनेकान्तवादिनां तूभग्रस्वभावत्वाद् वस्तुनो न किश्चिदघटमानकम्, एवमेव फलवृन्तयोः संयोगविनाशे विभाग उपजायते फलादिषु श्यामताsपैति पीततोत्पद्यत इति विकल्प्य निरसनीयम्, एवमेते विकल्पाः नित्यानित्यत्वयोः सहा- पूर्वकेण विरोधलक्षणेन सङ्गता अपीह स्यात्कारोपलाञ्छन प्रक्रियायां वस्थानविरोधाभावः न सम्भवन्ति । अपिचैकत्रावस्थानं न दृश्यत इति किमेकस्मिन् धर्मिणि नास्ति, यद्येवं ततोऽ सिद्धता, दृष्ट एक एवाश्मा शीतश्रोष्णव । अथ यत्र देशे शीतो न तत्रैवोष्ण इति एतदप्यसत्, नहि शिशिरस्पर्शमुदकं भिन्नदेशवर्त्यसंयुक्तमेवाग्निं विध्यापयति, संयोगश्चैकदेशवर्तित्वे जलानलपरमाणूनां सि
यति, अन्यथा च त्रैलोक्येऽप्यग्न्यभावप्रसङ्गः, सति च संयोगे क्षणमात्रावस्थानमेकत्र दृटमेव तदा कुतो विरोधः १ । उत्तरकालमदर्शनाद् विरोध इति चेत्, अत एव कदाचिद विरोधः कदाचिदविरोध इति स्याद्वादाश्रयणमपदोषम् ॥ अथैकस्मिन्नेवाग्निद्रव्ये उष्णतानुष्णते युगपन्न स्तः, इत्येतदप्यसारम् । यतः स्पर्शपर्यायेणाग्निरुष्णोऽभिधीयते रूपपर्यायेण त्वनुष्ण
१. पूर्वावस्थानम् ' इति क-ख-पाठः ।
Jain Education International
For Private & Personal Use Only
"
www.jainelibrary.org