________________
३७८
तत्वार्थाधिगमसूत्रम्
[ अध्याय ५
व्यतिरिक्तं किञ्चिद् द्रव्यमस्ति, कथञ्चिद् भेदे वा परस्याभ्युपेतबाधा स्यात्कारलाञ्छनार्थज्ञानवचसो वा वादिनः सिद्धसाध्यतासमा स्कन्दनात् सर्वमसमीचीनम् । न चान्धतमसादौ केवलमृद्द्रव्यग्रहणमस्त्यभिहितन्यायात्, अपि च
“ द्रव्यं पर्यायवियुक्तं (तं १ ), पर्याया द्रव्यवर्जिताः । क कदा केन किंरूपा, दृष्टा मानेन केन वा १ ॥ "
नहि विशेषनिरपेक्षो धौव्यांशः सामान्यलक्षणः कश्विद् विद्यते यो गृह्येत केवलः, न च सामान्य निरपेक्षः कथिद् विशेषो नाम विद्यते य इन्द्रियाणां गोचरतामापद्यते ।। अथैवमाशङ्केथाःन ब्रूमो नास्ति सामान्यांशः, स हि विद्यमानोऽपि ग्रहणकाले ग्रहीतुमशक्य इति विशेषमात्रग्रहणमेवेति, एवं तर्हि सामान्यांशः स्वशरीरविरहाद् विभावत्वाद् व्योमोत्पलादिवत् कुतो विशेषग्रहणम् ? । सामान्योपलम्भानुभवविरोधश्च सामान्यशून्य विशेषमात्रग्रहणवादिनः । नापीन्द्रियविषयसङ्करः, चक्षुरादिज्ञानावरणकर्मक्षयोपशम विशेषात् तादृश एवासौ क्षयोपशमो येन समस्तान्येवेन्द्रियाण्येक सामान्यग्रहणे व्याप्रियन्ते, न पुनर्विशिष्टान्यान्यार्थग्रहणे, तथादृश्यमानस्वात् । न चास्ति काचिद् युक्तिर्यद् विवक्षितं वस्तु सर्वथा वस्त्वन्तरेणासदृशं
सामान्यसिद्धिः स्वरूपेऽवस्थास्यते, सर्वप्रकारमतुल्यत्वाद् वन्ध्यासुतादिवत्, अतो भवान्तरेण तुल्यताऽवश्यमभ्युपेया विवक्षितस्य वस्तुनः सत्त्वमिच्छता । तच्च सामान्यं धौव्यलक्षणम् । न चैतद् बुद्धिपरिकल्पनामात्रे सामान्ये घटते, परिकल्पस्य वस्त्वसंस्पर्शात् तादवस्थ्यं दोषाणाम्, परिकल्पथाभूतोऽपि तत्त्वतो वस्तुष्वेव तादृशीं धियमुत्पादयति, नावस्तुषु वाजिविषाणादिष्विति । किमत्र कारणमुपादाय वस्तुविकल्पः प्रवर्तत इति चेत्, तदसत् तस्य वस्तुनो वस्तुत्वेनानिर्धारितत्वान्नोपादानकारणता, न च सर्वथा वस्तुनः तुल्यतैव, यदि स्यात् ततो वैरूप्यशून्यत्वाद् विवक्षितं वस्तु वस्त्वन्तरादन्यदित्येष प्रत्ययो न स्यात्, केनचिदप्याकारेण भेदाभावात्, अतो भेदमभिलषता प्रेक्षापूर्व कारिणा वैरूप्यमपि केनचिदाकारेणाभ्युपेयम्, एवं चेत् सामान्यविशेषस्वभावं सर्वदा सर्वमेव वस्त्विति प्रतिपत्तव्यम् । न च सामान्यविशेषयोः स्वलक्षणभेदेऽप्यत्यन्तभेदः, शबलरूपत्वात् वस्तुनश्च वस्तुतयाऽपि वस्त्वन्तरातुल्यत्वेऽन्यतरस्यावस्तुत्वप्रसङ्गात् तदविनाभावाच्च द्वितीयस्याप्यभाव इति सर्व शून्यं स्यात्, इष्यत एवेति चेत्, तदयुक्तम्, प्रमाणप्रमेयप्रतिपाद्यप्रतिपादकसद्भावात् । सांवृत एष व्यवहार इति चेत्, तदप्यसत्, संवृतिः प्रमाणमप्रमाणं वा स्यात् ? यदि प्रमाणं ततो बाधकप्रमाणाभावात् परमार्थसत्त्वं प्रत्यक्षादिवत्, अथाप्रमाणं संवृतिः ततो देवानांप्रियस्य व्यर्थः प्रयासः, प्रमाणप्रतीतिनिबन्त्यात् प्रेक्षापूर्व कारिव्यवहाराणाम् । अथ सकलशून्यताप्रसङ्गभीत्या सामान्यविशेषयोस्तुल्यत्वमेव वस्तुतयाऽभ्युपेयते ततः सामान्यविषयस्वभाव सर्वमिति व्यपेतशङ्कं प्रतिपद्यस्व, परस्परं वा स्वभाव विरहाभावात् सामान्यविशेषयोः सङ्कीर्णतायां
सामान्यविशेषरूपता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org