________________
सूत्र २९] स्वोपज्ञभाष्य-टीकालङ्कृतम्
३७७ परस्परनिरापेक्षौ न सतो लक्षणम् , द्रव्यास्तिकस्य धौव्यमात्रवृत्तित्वात् , पर्यायस्योत्पत्तिव्यय
मात्रवृत्तित्वात् परस्परापेक्षौ तु वस्तुस्वतत्वम् , न च द्रव्यांशः पर्यायांशो द्रव्यपर्यायवादः वा परमार्थतः कश्चिदस्ति परिकल्पितत्वात् ।। यथाऽऽह -
"नान्वयो भेदरूपत्वा न भेदोऽन्धयरूपतः ।
मृद्भेदद्वयसंसर्ग-वृत्तिर्जात्यन्तरं घटः ॥" अत एकान्तवादपरिकल्पिताद् वस्तुनोऽनेकान्तवादिनः संमतं वस्तु जात्यन्तरमेवाविभक्तरूपद्वयसंसर्गात्मकत्वात् नरसिंहादिवत्, यथा
"न नरः सिंहरूपत्वा-म सिंहो नररूपतः ।
शब्दविज्ञानकार्याणां, भेदाजात्यन्तरं हि तत् ॥" तदेवं घटाद्यपि कल्पिताद् द्रव्यार्थरूपात् पर्यायार्थरूपाच्च जात्यन्तरमित्येवंविधप्रक्रियाभ्युपगमेन च सर्वमेकनयमतानुसारि दूषणमुपन्यस्यमानमसम्बद्धमेवापनीपद्यते, यतश्चैवमतो भेदाभेदस्वभावेऽपि वस्तुनि कदाचिदभेदप्रत्ययः स्ववासनावेशात् केवलमन्वयिनमंशमुपगृहमानः प्रवर्तते, कदाचिद् भेदमात्रवादिनो भेदावलम्बनः प्रत्ययः प्रादुरस्ति, स्याद्वादिनस्तु जिज्ञासितविवक्षितार्थायनज्ञानाभिधानस्य द्रव्यपर्याययोः प्रधानोपसर्जनभावापेक्षया समस्तवस्तुविषयव्यवहारप्रवृत्तिर्वस्तुत्वमनेकाकारमेव ।। यथाऽऽह
" सर्वमात्रासमूहस्य, विश्वस्थानेकधर्मणः।
सर्वथा सर्वदाभावात्, कचित् किश्चिद् विवक्ष्यते ॥" इति । भवतु नाम विवक्षावशाद वचनव्यवहारः, चक्षुरादिज्ञानं पुनः प्रवर्तमानं न सहते कालान्तरम्, प्रथमसम्पात एव स्वविषयग्रहणात्, तद् यदि भेदाभेदस्वभावं वस्तु किमिति प्रथमत एव तदुल्लेखमिन्द्रियज्ञानं नोत्पद्यते, अतो मनोविज्ञानविकल्पमात्रं द्रव्यपर्यायाविति ? । अत्रोच्यते-चक्षुरादिविज्ञानान्यवग्रहादिक्रमेणोत्पद्यन्ते, अर्थावग्रहश्चैकसामायिकः प्राक, ततो मुहूर्ताभ्यन्तरवर्तीहाज्ञानं, ततोऽपायज्ञानमनन्तरं प्रमाणमिन्द्रियमेव व्यापारयतो निश्चिताकारमुपजायते, तद्भावे भावात् तदभावे चाभावात, निश्चयश्चक्षुरादि विषयोऽप्यस्ति मनोविषयश्चाष्टाविंशतिविधत्वान्मतेबहादिभेदेन वा बहुतरविकल्पत्वाद् अस्त्येवेदं निश्चिताकारमिन्द्रियस्य ग्रहणं
द्रव्यपर्यायाविति, मानसमपि यदि भवति, भवतु नाम को दोषः ? सर्वथा व्यव्यातारकता मनोविज्ञानमेवेदं तचाभूतं विकल्पमात्रमित्येतदसत्, अतो यदवाचि-ननु रूपादिव्यतिरेकेण मृद्रव्यमित्येकवस्त्वालम्बनश्चाक्षुषः प्रत्ययः प्रत्याख्यातुमशक्य इति तत्स्वमतिजृम्भितसमुत्थापितविकल्पमात्रम्, स्याद्वादिप्रक्रियानवबोधात, यतो न रूपादिभ्योऽत्यन्त
१ 'वादि' इति क-पाठः । २ 'समयिक ' इति ग-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org