________________
सूत्रं ३ ] स्वोपक्षमाष्य-टीकालङ्कृतम्
३२१ अथैतानि पञ्चसङ्ख्यावच्छिन्नानि धर्मादीनि द्रव्याणि किं कदाचित् स्वभावाव प्रच्यवन्ते ? पञ्चत्वसङ्ख्यां वा व्यभिचरन्ति ? मूर्तान्यमूर्तानि वेति प्रश्नत्रितयम् । अतः संशीतिव्यवच्छेदायेदमुच्यते
सूत्रम्-नित्यावस्थितान्यरूपाणि च ॥ ५-३॥ टी०- यथासङ्ख्यमनेन सूत्रेण प्रश्नत्रितयं प्रत्युच्यते । नित्यग्रहणाद् धर्मादीनां खभावादप्रच्युतिराख्यायते, अवस्थितग्रहणादन्यूनानधिकत्वमाविर्भाव्यते, अनादिनिधनेयत्ताभ्यां न स्वतत्त्वं व्यभिचरन्ति ॥ ननु च पृथिव्यादीनि नव द्रव्याणि, तत् कथं पञ्चत्वसङ्ख्यां न व्यभिचरन्तीति ?। उच्यते-पृथिव्यतेजोवायुमनांसि तावत् पुद्गलद्रव्यमेव मूर्तक्रियावत्त्वाद् आत्मपरिणमिता वा वसुधादयः पुद्गला जीवा एव मनुष्यादिवत्, कालश्चैकीयमतेन द्रव्यमिति वक्ष्यते, वाचकमुख्यस्य पञ्चैवेति । दिशश्चाकाशान्न द्रव्यान्तरम्, आकाशप्रदेशा एव विशिष्टरचनाभाजो दिग्व्यपदेशमवरुन्धन्ति, न च तद्वयतिरेकेण तत्स्वरूपोपलब्धिर्दिशामस्तीति । अरूपिग्रहणाद् धर्माधर्माकाशजीवानाममूर्ततामाविष्करोति, रूपरसगन्धस्पर्शपरिणामबहिर्वर्तित्वादमूर्तान्युच्यन्ते । अपरे द्विधा मिन्दन्ति सूत्रम्, 'नित्यावस्थितानि' पश्चापि धर्मादीनि नित्यावस्थितानि भवन्ति, ततोऽरूपाणि', एतान्येव धर्मादीन्यविद्यमानरूपरसादीनि द्रष्टव्यानि, चत्वारीति पृथग्योगकरणात् किल पञ्चानामप्यवस्थितत्वमरूपत्वं चतुर्णामिति । एतच्च शक्यमेकयोगेपि हि, अरूपंग्रहणात् सम्भवतो धर्मादय एव सम्भत्स्यन्ते, न पुद्गलाः । अथवाऽप्यरूपग्रहात्
... पञ्चानामपि प्रसङ्गे अपवदिष्यते 'रूपिणः पुद्गला' (अ० ५, सू० ४) सूत्रपाठविचारः
" इति । न च पृथग्योगेऽप्येषोऽर्थः शक्यो लब्धुमतो वृथा वाञ्छति ।अपरे वर्णयन्ति-एकयोग एव नित्यावस्थितान्यरूपाणि, अत्राद्ययोः समस्तपदयोः पाठः कृतः, अरूपग्रहणं तु न समस्तमाभ्यां सहातो विभक्तिद्वयश्रवणमेतस्मादुन्नीयते-नित्यावस्थितग्रहणं समस्तद्रव्यविशेषणमरूपग्रहणमेककं पुद्गलद्रव्यव्युदासेन धर्मादिचतुष्टयविशेषणम् ॥ अत्रापरे व्याचक्षते-यत्किश्चिदेतत् नित्यावस्थितारूपाणीत्येवमपि पाठे लभ्यत एवाभिलषितोऽर्थ उत्तरसूत्रोपादानात, तस्मात् समस्यैव त्रीण्यपि पदानि सूत्रमध्येयम् । अस्मिन् पक्षे सूरिविरचितसूत्रेविन्यासभनापत्तिन तु प्रक्रिया दुष्यति । अपरे नित्यग्रहणमवस्थितविशेषणं कल्पयन्ति, नित्यमवस्थितानि नित्यावस्थितानि, " सह सुपा" (पा० अ० २, पा०, १ सू० ४) इति समासो नित्यप्रजल्पितवत्, अस्मिन् विकल्पे भाष्यमगमितं स्यात्, भाष्यकारेण त्वेतानि त्रीण्यपि स्वतन्त्राण्येव व्याख्यातानि, तत् कथं नित्यग्रहणमवस्थितविशेषणं स्यात् ? भाष्यभेदे
१ नैतानि कदाचिदपि न सन्ति, न चान्ये तत्तया परिणमन्ति । २ 'अरूपीणि' इति क-पाठः। ३ 'अरूपिग्रहणात्' इति क-पाठः । ४ 'अतो भकिद्वय ' इति ग-पाठः। ५ विधाय अपवादनापेक्षया विभक्तौरबतामपेक्ष्य सूरिविन्यासः, एवमेवासर्वपर्यायः।
४१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org