________________
३२० तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ५ एवोत्थितासीनोत्कुटकशयितपुरुषवतः तदेव च वृत्त्यन्तरव्यक्तिरूपेणापदिश्यते जायतेऽस्ति विपरिणमते वर्धतेऽपक्षीयते विनश्यतीति, पिण्डातिरिक्तवृत्त्यन्तरावस्थाप्रकाशतायां तु जायत इत्युच्यते, सव्यापारे च भवनवृत्तिः, अस्तीत्यनेन निर्व्यापारात्मसत्ताख्यायते भवनवृत्तिरुदासीना, अस्तिशब्दस्य निपातत्वात् , विपरिणमत इत्यनेनापि तिरोभूतात्प्ररूपस्यानुच्छिन्नतयाऽनुवृत्तिकस्य रूपान्तरेण भवनम्, यथा क्षीरं दधिभावेन परिणमते विकारान्तरवृत्त्या भवनमवतिष्ठते, वृत्त्यन्तरव्यक्तिवृत्तिहेतुभाववृत्तिर्वा विपरिणामः । वर्धत इत्यनेन तु स एव परिणामः उपचयरूपः प्रवर्तते, यथाऽङ्करो वर्धते, उपचयवत्परिणामरूपेण भवनत्तिय॑ज्यते, अपक्षीयत इत्यनेन तु तस्यैव परिणामस्यापचयवृत्तिराख्यायते दुर्बलीभवत्पुरुषवदपचयरूपभवनवृत्त्यन्तरव्यक्तिरुच्यते, विनश्यतीत्यनेनाविर्भूतभवनवृत्तितिरोभवनमुच्यते, यथा विनष्टो घटः प्रतिविशिष्टसमवस्थानात्मिका भवनवृत्तिस्तिरोभूता, न त्वस्वभावतैव जाता, कपालाद्युत्तरभवनवृत्त्यन्तरक्रमावच्छिन्नरूपत्वादित्येवमादिभिराकारैर्द्रव्याण्येव भवनलक्षणान्यपदिश्यन्ते । अपरे सूत्रद्वयमेतदधीयते-"द्रव्याणि, जीवाश्च", तदयुक्तम्, अस्तिकायता द्रव्यता च प्रतिपिपादयिषिता जीवानाम्, सा चैकयोगेऽपि सति प्राणिनामव्याहतैव चशब्दोपादानसामर्थ्यादतः क एष निर्विशेषो योगद्वयादरः? । सम्प्रति भाष्यमनुस्रियते
भा०-एते धर्मादयश्चत्वारो जीवाश्च पञ्च द्रव्याणि च भवन्तीति । उक्त हि-'मतिश्रुतयोर्निबन्धा द्रव्येष्वसर्वपयायेषु, सवेंद्रव्यपर्यायेषु केवलस्य' (अ०१, सू० २७, ३०) इति ॥ २॥
टी-एते धर्मादय इत्यादि । एत इति प्रथमसूत्रोपदिष्टाः धर्मादयश्चतुःसङ्ख्यावच्छिन्नाः प्राणिनश्वास्तिकायाः द्रव्याणि, चशब्दादुभयमभिसम्बध्यते प्राणिषु, द्रव्यता चैषां स्वपरनिमित्तद्वयोपलक्षिता, तत्र स्वनिमित्तं स्वधर्मव्याप्तिर्ययाऽसाववष्टब्धस्तथा गृह्यते स्वधर्मव्याप्त्यैव द्रव्यं, प्रतिषिध्यते प्रत्याय्यते च यथाभूतं वा ज्ञायते । स्वधर्मप्राप्तिश्च व्याप्तिलक्षणा तादात्म्येन व्यवस्थानम्, ततश्च स्वभावावस्थानयेव द्रव्यलक्षणम् । परनिमित्तं चक्षुह्यं रूपमित्यादि योज्यम् । द्रव्यमेव हि तत् तथा व्यपदिश्यते रूपादितया गत्याद्युपग्रहकृत्तया च विशेषणापेक्षम्, पितापुत्रभ्रातृभागिनेयमातुलादिसम्बन्धिदेवदत्तवत् परनिजनिमित्तोपलक्षणदर्शनाभिप्रायेण चाह-उक्तं हीत्यादि । प्रथममभिहितं मतिज्ञानश्रुतज्ञानयोग्रेहणता द्रव्येषुधर्मादिष्वसकलपर्यायेषु, चक्षुरादिभिरिन्द्रियैस्तान्युपलक्ष्यन्ते, श्रुतेन चेत्यविशुद्धग्रहणमेतद्, विशुद्धं तु सर्वद्रव्यपर्यायेषु केवलस्येति, तेनापास्तसकलविशेषणेन केवलज्योतिषा द्रव्याणां याथात्म्य खनिमित्तलक्षितमागृह्यते, अतः स्वपरनिमित्तोपलक्षितानि धर्मादीनि द्रव्याणि द्रव्यास्तिकायाभिप्रायवशात् प्रतिपत्तव्यानीति ॥ २॥
१'भवनरूप ' इति क-पाठः । २ 'प्राणिनश्च' इति घ-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org