________________
सूत्र १] स्वोपनमाष्य-टीकालङ्कृतम्
३१७ पतित इति ? । उच्यते-ज्ञानशब्दयोर्निबन्धमुभयमर्थविदः प्रचक्षते स्वभावरूपमापत्तिरूपं च, तत्र प्रत्यस्तमितनिरवशेषविशेषणः स्वभावरूपः सर्वदाऽप्यविकार्यो येनांशेन ध्रौव्यपदव्यपदेशमश्नुतेऽसौ, यथा चैतन्यमात्मनोऽकृत्रिमम्, मूर्तत्वं वा पुद्गलद्रव्यस्य, धर्मादीनाममूर्तत्वं सकललोकव्यापिता गत्याद्युपग्रहादिलक्षणानि च ध्रुवाण्येतानि । आपादनमापत्तिः -आविर्भावतिरोभावौ, वस्तुनः उत्पादविनाशावितियावत्, तत्र मृन्मूर्तिरूपादिस्वभावमजहद् वस्तु घटकपालशकलाकारमास्कन्दन्न)दु?)त्पद्यत इति व्यपदिश्यते, यथा हि महतः सरसस्तरङ्गमालाः पटुमारुतवेगायासिताः प्रादुष्ष्यन्ति जलद्रव्यात्मिकाश्च ताः, एवं घटादयोऽपीति । तथा विनाशोऽपि घटाद्याकारप्रलयः कारणापेक्षः स्थूलतरङ्गसन्ततीनामिव स्तिमितवारितयाऽवस्थानमुज्झितसमीरणप्रबलवेगसम्पर्काणामित्येवमुत्पादप्रलयध्रौव्यलक्षणः प्रवचनेऽस्त्यर्थः प्रासिधत् । तत्रैतस्त्रितयदिदर्शयिषयाऽऽचार्येणास्तिशब्दोऽव्ययसंज्ञः सकलधर्मादिद्रव्यध्रौव्यप्रतिपादनायाकारि, कायशब्दस्तु सूत्रीपात्त आपत्त्यर्थः । एवं तर्हि सूत्र एवोपादानमस्तिशब्दस्य न्याय्यम्, विशिष्टार्थप्रतिपत्त्यर्थत्वात्, कायशब्दवत्, कायशब्दो वा नोपादेयस्तत एव.हेतोरस्तिशब्दवदिति । उच्यते-अन्यतरोपादाने ह्यत्रान्यतरसम्प्रत्ययो भवतीत्यभिप्रायः सूरेः, संसर्गादीनि कारणानि शब्दस्यान्यस्य सन्निधाने भवन्ति व्यवच्छेदे र्च
"संसर्गो विप्रयोगश्च, साहचर्य विरोधिता । अर्थः प्रकरण लिङ्गं, शब्दस्यान्यस्य सनिधिः ।। सामर्थ्यमौचिती देशः, कालो व्यक्तिः खरादयः ।
शब्दस्यार्थव्यवच्छेदे, विशेषस्मृतिहेतवः ॥" ( श्रीहेमचन्द्रकृतकाव्यानुशासनवृत्तौ पृ० ३९)
एषामनन्तरोक्तानां मध्ये संसर्गो गृह्यते, अत्र संसर्गमङ्गीकृत्य ध्रौव्यार्थप्रतिपत्तयेऽस्तिशब्दप्रक्षेपः, उत्पाद विनाशौ हि ध्रौव्याविनाभूतौ संसृष्टौ धौव्येण, अन्यथा हि ध्रौव्यात्मकताभावेऽन्वयिशून्यत्वादसन्निहितभवितृकत्वादुत्पादविनाशौ निर्बीजो न स्याताम् । नापि ध्रुवता आविर्भावतिरोभावरहिता, ततस्त्र्यात्मकं वस्तु जैनेन्द्राणां बुद्धिव्यवस्थापितप्रविभागं प्रज्ञापनोपायत्वान्नरसिंहादिवत् , अतः कायशब्देनापत्तिरभिधित्सिताऽस्तिशब्देन धौव्यमिति । कथं पुनः कायग्रहणादापत्तिरुद्भवप्रलयात्मिका प्रतीयत इति ? । उच्यते-प्रचीयमानाकारता हि कायः समुदायः, स च विभागे सति भवति, विभक्ताश्च धर्मादिद्रव्यप्रदेशाः, न
१ कायशब्दस्तावत् निरुपचारेण कायादेरुपचारेण चास्तिकायस्य वाचकः, अत्र धर्मादिना संसर्गादस्तिकायार्थस्य ग्रहः, यद्वा धर्मादिशब्दा एव धर्मास्तिकायाद्यर्थाः, पञ्चमांगे तदनेकार्थेषु धर्म इत्यादेनिर्देशात्, अजीवतायाः कायतायाश्च व्यक्तये अजीवकाया इति, आयेन जीवास्तिकायस्य परेण कालस्य च व्यवच्छेदः ।
२'तत्रोपात्त' इति क-पाठः । ३ 'वा' इति क-पाठः । ४ पुद्गलपरमाणूनामप्यस्त्येव विभागः, पूरणगलनधर्मत्वात्, नेत्यादि तु विशिष्टविभागताख्यापनाय ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org