________________
३१६
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ५ कायाः धर्माधर्माकाशसिद्धपुद्गला इति षडस्तिकायाः प्रसज्येरन् । अथ मतमचेतनेष्वकर्मस्वजीवत्वम्, एवं तर्हि चैतन्यप्रतिषेध एव ज्यायान्, किं जीवनप्रतिषेधेनेति ? । जीवो न भवतीत्यजीव इति प्रसज्यप्रतिषेधः, स च प्रसक्तस्य भवति भूयसेति, अत्र च न कथञ्चित् प्रसक्तचैतन्यधर्म इत्यत उपेक्ष्यते । अजीवानां कायाः अजीवकायाः, शिलापुत्रकस्य शरीरमित्यभेदेऽपि षष्ठी दृष्टा, तथा सुवर्णस्याङ्गुलीयकम्, अन्यत्वाशङ्काव्यावृत्त्यर्थो वा कर्मधारय एवाभ्युपेयते, अजीवाश्च ते कायाश्चेत्यजीवकायाः। कायशब्दः उपसमाधानवचनः प्रदेशानामवयवानां च सामीप्येनान्योन्यानुवृत्त्या सम्यगमर्यादया धारणमवस्थानमुपसमाधानम् । अथवा काया इवैते कायाः, शरीराणि यथा प्रदेशावयवित्वात् कायशब्दवाच्यान्येवमेतेऽपीति । कृतद्वन्द्वाश्चैते . .धर्मादयो निर्दिष्टाः,तत्र धर्मो वक्ष्यमाणगत्युपग्रहकार्यानुमेयः,स्थित्युपग्रहका
'र्यानुमेयश्चाधर्मः॥अथादृष्टौ धर्माधौं शुभाशुभफलदायिनौ कस्मान्न गृह्यते॥ उच्यते-द्रव्यप्रस्तावापास्तत्वाद्, गुणत्वे सति तयोरप्रसङ्गः । अपि च-जैनानां धर्माधौं शुभाशुभफलप्रसवसमर्थौ मूर्तावेव पुद्गलात्मकत्वादतः पुद्गलग्रहणेनैव तयोर्ग्रहणमिति नास्ति तद्विषया मनागप्यारेका । अवगाहोपकारानु मेयमाकाशम् । अलोकाकाशं कथमिति चेत् अनवगायत्वादिति, उच्यते-तद्धि व्याप्रियेतैवावकाशदानेन यदि गतिस्थितिहेतू धर्माधर्मों तत्र स्याताम्, न च तत्र स्तस्तो, तदभावाच्च विद्यमानोऽप्यवगाहनगुणो नाभिव्यज्यते किलालोकाकाशस्येति । पूरणाद् गलनाच पुद्गलाः, संहन्यमानत्वाद् विसंहतिमत्त्वाच्च । पुरुषं वा गिलन्ति पुरुषेण वा गीर्यन्ते इति पुद्गलाः, मिथ्यादर्शनादिहेतुवर्तिनं पुमांसं बध्नन्ति वेष्टयन्तीति गिरणार्थः, इतरत्रादानार्थों गिरतिः, पुरुषेणादीयन्ते कषाययोगभाजा कर्मतयेति पुद्गलाः । सत्यजीवत्वे कालः कस्मान निर्दिष्ट इति चेत् उच्यते-स त्वेकीयमतेन द्रव्यमित्याख्यास्यते द्रव्यलक्षणप्रस्ताव एव, अमी पुनरस्तिकायाः व्याचिख्यासिताः, न च कालोऽस्तिकायः, एकसमयत्वादिति ।
भा०-धमास्तिकायोऽधमास्तिकाय आकाशास्तिकायः अजीवकायभेदाः
म पुद्गलास्तिकाय इत्यजीवकायाः । तान् लक्षणतः परस्ताद् वक्ष्यामः । कायग्रहणं प्रदेशावयवबहुत्वार्थमद्धासमयप्रतिषेधार्थ च ॥१॥
टी-धर्मास्तिकाय इत्यादि भाष्यम् । सूत्रे धर्मादयः कायग्रहणं च साक्षात्कृतं तदप्यजीवपदसम्बद्धं भाष्यकारः सामानाधिकरण्यनिर्देशे सति धर्मादिभिः सह संघटयति प्रत्येकंधर्मास्तिकाय इति ।। ननु च धर्मकाय इति भाव्यम्, एवमस्तिशब्दोऽन्तरालवर्ती कुतोऽतर्कितः
१ स्वरूपविशेषणमेतत्, तेन नात्र गत्यादिना विशिष्टप्रतिषेधः, तत्त्वतः जीवपुद्गलानां गतिस्थितिहेतू धर्माधर्मों न तत्र, तथा च शेषचतुष्टयास्तित्वाभावस्तत्रेति मनस्याधायैव वक्ष्यति तदभावेत्यादि ।
२ अजीवकाया इति सुवचम् । यद्वा अस्तीत्यस्योभयत्रापि अव्ययीभूताख्यातता । यद्वा पदैकदेशे पदसमुदायोपचार इति मूले कायशब्देनास्तिकायग्रहणं, तथा च भाष्ये धर्मास्तीत्यादिव्याख्या न विरोधिनी ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org