________________
सूत्रं २२ ]
स्वोपज्ञभाष्य-टीकालङ्कृतम् .. ३०१ पश्यन्ति । येषामपि क्षेत्रतस्तुल्योऽवधिविषयस्तेषामप्युपर्युपरि विशुद्वितोऽधिको भवतीति ॥ २१॥
टी०-इन्द्रियाणि श्रोत्रादीनि तेषां विषयः-शब्दादिर्योग्यदेशव्यवस्थितस्तग्रहणप्रवृत्तावुपर्युपर्याहितपाटवा भवन्ति, अवधिविषयेण चोपर्युपरि समधिकाः, अधस्ताद् रत्नप्रभां पृथिवीं पश्यन्ति सौधर्मेशानयोर्देवास्तिर्यगसङ्ख्येयान् द्वीपसागरान्, ऊर्ध्वमास्वभवनस्तूपिकाग्रात सर्व एवोपरि देवाः पश्यन्ति । सनत्कुमारमाहेन्द्रयोरवधिना श
राप्रभामधस्तिर्यग् बहुतरकानसङ्ख्येयान् द्वीपसमुद्रान् । एवं सर्वत्र वक्तव्यमिति । ब्रह्मलान्तकयोवालुकाप्रभां पश्यन्ति, शुक्रसहस्रारयोः पङ्कप्रभां, आनतप्राणतयोरारणाच्युतयोश्च धूमप्रभा, अधस्तात्तनमध्यमौवेयकास्तमःप्रभां, उपरितनौवेयकास्तु महातमःप्रभामिति । अनुत्तरविमानपञ्चकनिवासिनस्तु समस्तां लोकनाडीं पश्यन्ति लोकमध्यवर्तिनी, न पुनर्लोकमिति । येषामपि देवानां तुल्यविषयमवधिज्ञानमुपर्युपरि तेषामप्युपरिष्टाद विशुद्धतरमवसेयमिति ॥ २१॥ एते चोपर्युपरि वैमानिका:
सूत्रम्-गतिशरीरपरिग्रहाभिमानतो हीनाः॥४-२२॥
भा०-गतिविषयेण शरीरमहत्त्वेन महापरिग्रहत्वेनाभिमानेन च उपयुपरि हीनाः । तद्यथा-हिसागरोपमजघन्यस्थितीनां देवानामासप्तम्यां गतिविषयः गत्यादिभित्त- तियेंगसङ्ख्ययानि योजनकोटीकोटीसहस्राणि, ततः परतो त्तरदेवानां हीन- जघन्यस्थितीनामेकैकहीना भूमयो यावत् तृतीयामिति । गतपू.
त्वम् वाश्च गमिष्यन्ति च तृतीयायां देवाः, परतस्तु सत्यपि गतिविषये न गतपूर्वा नापि गमिष्यन्ति । महानुभावक्रियातः औदासीन्याचोपर्युपरि देवा न गतिरतयो भवन्ति ॥
टी-गतिशरीरपरिग्रहाभिमानतोहीनाः, द्वन्द्वात् तृतीयार्थे तसिः। गतिविषयेणेत्यादि भाष्यम् । गतिर्देशान्तरगमनम्, येषां वे सागरोपमे जघन्या स्थितिस्ते किल देवाः सप्तमधरां प्रयान्ति, ते च सनत्कुमारकल्पात् प्रभृति लभ्यन्ते, शक्तिमानं चैतद वर्ण्यते, न पुनः कदाचिदगमन तियंगसङ्ख्येयानि योजनकोटीन कोटीसहस्राणि, ततः परत इत्यादि सागरोपमद्वयादधो जघन्या स्थिति]पां न्यूनतरा न्यूनतमा चेति, ते त्वेकैकहीनां भुवमनुप्राप्नुवन्ति यावत् तृतीया पृथिवी, तां च तृतीयां पूर्वसङ्गतिकाद्यर्थ गता गमिष्यन्ति, परतस्तु सत्यामपि शक्तौ न गतपूर्वा नापि गमिष्यन्ति, औदासीन्यात्-माध्यस्थ्यादुपयुपरि न गतिरतयो देवा जिनाभिवन्दनादीन मुक्वेति ॥
१ तृतीयेति' इति घ-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org