SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ सूत्रे ५०-५१] स्वोपनभाष्य-टीकालङ्कृतम् . २१७ सूत्रम्-नारकसम्मूछिनो नपुंसकानि ॥ २–५० ॥ टी–केनचित् पुनरधीयते-नपुंसकवेदवन्तो जीवाः नारकसम्मूछिनो नपुंसकाः, नपुंसकं येषां विद्यते, अर्शआदिपाठादतं विधाय ॥ भा०-नारकाश्च सर्वे सम्मूछिनश्च नपुंसकान्येव भवन्ति, न स्त्रियो न पुमांसः। तेषां हि चारित्रमोहनीयनोकषायवेदनीयाश्रयेषु त्रिषु नपुंसकवेद : वेदेषु नपुंसकवेदनीयमेवैकमशुभगतिनामापेक्षं पूर्वपद्धनिका चितमुदयप्राप्तं भवति, नेतरे इति ॥५०॥ टी-नारकाश्चेत्यादि भाष्यम् । नरकेषु भवा नारकाः सर्वे सप्तसु पृथिवीषु वर्तमानाः सम्मूछिनश्च सम्मूर्छनं सम्मूर्छःसम्मूर्छा वा सम्मूर्च्छनजन्मेत्यर्थः तद् येषां विद्यते ते सम्मूछिनः, सम्मूर्च्छनजन्मभाजश्च पृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुरिन्द्रियाश्च केचित् तिर्यङ्मनुष्याः, सर्वे एते नपुंसकान्येव नपुंसकवेदभाज एवेत्यवधारयति। सामोल्लब्धमवधारणाफलं दर्शयति-न स्त्रियोन पुमांसः न स्त्रीवेदभाजोन पुरुषवेदवेदिनः, किं पुनः कारणं नपुंसकवेद एव तेष्वित्यत आह-तेषां हीत्यादि । यस्मात् तेषां नारकाणां सम्मूर्च्छनजन्मनां च चारित्रमोहनीयनोकषायवेदनीयाश्रयेषु त्रिषु वेदेषु,चारित्रमोहनीयं च तन्नोकषायवेदनीयं चेति चारित्रमोहनीयनोकषायवेदनीयम्-नवधा हास्यादि तद् आश्रयः-स्थानं येषां ते तदाश्रयास्तेषु तदाश्रयेषु त्रिषु वेदेषु निर्धार्यते । नपुंसकवेदनीयमित्यादि । नपुंसकत्वानुभवो नपुंसकवेदनीयं तदेवैकमशुभगतिनामापेक्षम्, प्रदर्शनवाक्यमिदमशुभगतिनामापेक्षमिति, अशुभगत्यादिनामगोत्रवेद्यायुष्कोदयापेक्षो मोहोदयः परो येनाशुभं महानगरदाहोपमं मैथुनामिलापमनुभवन्ति नारकाकाङ्क्षारूपमिति, सम्मूछेनजन्मानोऽपि हि तिर्यञ्चो मनुष्याचाशुभगत्यादिनामगोत्रवेद्यायुष्कोदयापेक्षमोहोदयाकाक्षावन्तो नपुंसकत्वमनुभवन्ति, पूर्वबद्धनिकाचितमुदयप्राप्तं पूर्वस्मिन् जन्मन्यनन्तरे बद्धं नपुंसकत्वयोग्यास्रवैः परिगृहीत. मित्यर्थः । निकाचितं तदेव ग्रहणानन्तरमात्मसात्कृतं क्षीरोदकवदन्योन्यानुगतिलक्षणेन सम्बन्धेनात्मप्रदेशैः सहाविभागितयाऽध्यवसायविशेषाद् व्यवस्थापितम् , उद्यप्राप्तमिति समासादितपरिपाकावस्थम् , तदेवंविधं नपुंसकवेदनीयमेव नारकसम्मूर्छिमानां जन्तूनां दुःखबहुलत्वाद् भवति, नेतरे स्त्रीपुंवेदनीये कदाचिदिति ॥ ५० ॥ उक्तं नारकसम्मूञ्छिनां लिङ्गम्, अथ देवानां किं लिङ्गमित्यत आह सूत्रम्-न देवाः ॥२-५१ ॥ भा०-देवाश्चतुनिकाया अपि नपुंसकानि न भवन्ति, स्त्रियः देवानां वेदो पुमांसश्च भवन्ति । तेषां हि शुभगतिनामापेक्षे स्त्रीपुंवेदनीये पूर्वबद्धनिकाचिते उदयप्राप्ते हे एव भवतो नेतरत् । पारि २८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002715
Book TitleTattvarthadhigamsutram Part 1
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1925
Total Pages546
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy