________________
प्रस्तावना
२१६ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः २ ख्येयोत्सर्पिण्यवसर्पिणीसमयराशिसमसङ्ख्यानि भवन्ति । वैक्रियशरीरेभ्य औदारिकशरीराण्यसङ्ख्येयगुणानि, तिर्यकशरीरमनुष्याणामसङ्ख्येयत्वात्, असङ्ख्येयोत्सर्पिण्यवसर्पिणीसमयराशिसमसङ्ख्यानि ॥ ननु च तिर्यञ्चोऽनन्ताः तत् कथमानन्त्ये च सति असङ्ख्येयानि शरीराणि स्युः । उच्यते-प्रत्येकशरीराणामसङ्ख्ययानि साधारणास्त्वनन्तास्तेषामनन्तानामेकं शरीरं भवतीत्यतोऽसङ्ख्यातानि, न पुनरनन्तानामपि प्रत्येकं शरीरमस्ति, तस्मात् सुष्ट्रक्तमसङ्ख्येयानीति, औदारिकशरीरेभ्यस्तैजसकार्मणान्यनन्तगुणानि । तानि हि प्रत्येकं सर्वजीवानां संसारिणां भवन्त्यतोऽनन्तानि, न पुनरेकं तैजसं कार्मणं वा बहूनामिति ॥ एवमेतेभ्यः कारणादिभ्यो नवभ्यो विशेषेभ्यः शरीराणां नानात्वं सिद्धं-प्रतिष्ठितमवसातव्यमिति ॥ ४९॥ भा०-अत्राह आसु चतसृषु संसारगतिषु को लिङ्गनियमः १। अत्रोच्य
ते-जीवस्यौदयिकेषु भावेषु व्याख्यायमानेषूक्तम्-'त्रिविधमेव लिङ्गसूत्रे लिहं-स्त्रीलिङ्गं पुल्लिङ्ग नपुंसकलिङ्गमिति' (अ० २, सू०६)।
" तथा चारित्रमोहे नोकषायवेदनीये विविध एव वेदो वक्ष्यते (अ०८, सू०१०) स्त्रीवेदः पुंवेदो नपुंसकवेद इति । तस्मात् त्रिविधमेव लिङ्गमिति ॥ तत्र।
टी०-अत्राह-आसु चतसृषु संसारगतिषु को लिङ्गनियम इति सम्बन्धग्रन्थः । अत्रावसरे शिष्यः प्रश्नयति-आसु नरकतियङ्मनुष्यामराख्यासु चतुःसङ्ख्यानियतासु संसारगतिषु को लिङ्गनियम इति, कियन्ति लिङ्गान्यासु गतिषु सम्भवन्तीति पृच्छयते, लिङ्गसङ्ख्यामेव तावनिर्धारयितुमिच्छति, न पुनः किं लिङ्गं कस्यां गताविति पृच्छयते । अत्रोच्यते-प्राक् तावल्लिङ्गेयत्ता निर्धार्यते ततश्च निवृत्तानि लिङ्गानि सङ्ख्यया गतिषु विभक्ष्यन्त इति । अतस्तमेव नियमं दर्शयति-त्रिविधमेव लिङ्गन न्यूनमधिकंवा, तच्च प्रारु प्रदर्शितं प्राय इत्येवमावेदयति जीवस्यौदयिकेष्वित्यादिना भाष्येण गतिकषायलिङ्गसूत्रे (अ० २, सू० ६) औदायिकमेकविंशतिभेदमाचक्षाणेन स्त्रीपुंनपुंसकलिङ्गानि त्रीण्येवाभिहितानि किमिति न स्मर्यन्ते? तथा चारित्रमोह इत्यादि द्विविधो मोहोऽष्टमे वक्ष्यते (अ० ८, सू०१०) दर्शनचारित्रभेदात्, तत्र चारित्रमोहे चारित्रमोहोऽपि द्विविधः-कषायचारित्रमोहो नोकषायचारित्रमोहश्च । तत्र नोकषायवेदनीये हास्यरत्यरतिभयशोकजुगुप्सास्त्रीपुंनपुंसकवेदभेदे त्रिविध एव वेदो वक्ष्यते । यस्य कर्मण उदयात् पुरुषाभिलाषस्तत् कर्म स्त्रीवेदशब्दाभिधेयम्, यस्य पुनरुदयात् रूयभिलाषस्तत् कर्म पुरुषवेदः, स्त्रीपुरुषद्वयाभिलाषो यदुदयात् तत् कर्म नपुंसकवेद इति, तस्मात् त्रिविधमेव लिङ्गमन्यस्यासम्भवात्, तदेव चैषां स्वस्थानं वेदानां तथैव च खरूपतो विस्तरेण व्याख्यास्यन्ते, तत्र चेयत्तया व्यवच्छिन्नाः सन्त इह संसारगतिषु नियम्यन्ते को वेदः कस्यां गतावित्यत आह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org