________________
२०५
सूत्रं ४५]
स्वोपज्ञभाष्य-टीकालङ्कृतम् उच्यते-तान्येव सोपभोगानि समस्तोपभोगकारणत्वात् कालान्तरावस्थानाच्च, इदं तु निरुपभोगमन्त्यम् ॥
भा०–अन्त्यमिति सूत्रक्रमप्रामाण्यात् कार्मणमाह । तत् निरुपभोगम् । न सुखदुःखे तेनोपभुज्यते, न तेन कर्म बध्यते, न वेद्यते, नापि निर्जीयत इत्यर्थः । शेषाणि तु सोपभोगानि । यस्मात् सुखदुःखे तैरुपभुज्यते कर्म बध्यते वेद्यते निर्जीयते च, तस्मात् सोपभोगानीति ॥ ४५ ॥ .टी-अन्त्यमिति सूत्रक्रमप्रामाण्यादिति। अन्ते भवमन्त्यम् , कस्यान्त्यमिति चेद् अत आह-सूत्रक्रमप्रामाण्यादौदारिकादिशरीराणां चतुर्णा पर्यन्तवर्ति कार्मणमाह, सूत्रकारादविभक्तोऽपि हि भाष्यकारी विभागमादर्शयति, व्युच्छित्तिनयसमाश्रयणात् । औदारिकादिशरीरचतुष्टयपर्यन्तवति तत् निरुपभोगं निरस्तोपभोगं निरुपभोगम्, उपभोगो वक्ष्यमाणः प्रतिविशिष्ट एव, तदभावान्निरुपभोगमुच्यते । कः पुनरसावुपभोगो यमधिकृत्योच्यते निरुपभोगम् ? अत आह-न सुखदुःखे तेनोपभुज्यते इति । मनोज्ञामनोज्ञशब्दादिविषयसम्पर्कजं च सुखं दुःखं न तेनोपभुज्यते, निर्वृत्युपकरणेन्द्रियाभावाल्लब्धीन्द्रियसन्निधौ सत्यपि, उभयेऽपि हि शब्दादयो विषया निवृत्त्युपकरणेन्द्रियविरह विह्वलेन कार्मणेन नोपभोक्तुं शक्यन्त इति निरुपभोगम्, असङ्ख्यातसमयनिवृत्तश्च छमस्थस्य सुखदुःखोपभोगः, विग्रहगतेश्च चतुःसमयपरत्वात् सोऽयुक्तः, तथा न तेन कर्म बध्यते, न वेद्यते, नापि निर्जीयते इत्यर्थः । उपभोगविशेषनिषेधप्रदर्शनार्थमिदमातन्यते, तेन कार्मणेन वपुषा न खलु कर्म बढे पार्यते, अभिव्यक्तकारणाभावात्, कारणैर्हि कर्ता व्यापारमातनोति पाणिपादश्रोत्रादिभिः तद्यथा-औदारिकशरीरी मनोऽभिसन्धानपूर्वकमाकृष्याकर्णान्तं शिलीमुखं मृगवधाय क्षिपति, असत्प्रलापादि बहु भाषते, अदत्तद्रविणमादत्ते, पाण्यादिना योषितमभिगच्छति, सकलकायव्यापारेण परिगृह्णाति मनोवाक्कायव्यापारैः, एवमेष कर्मबन्धकरणकलापस्तदा न समस्त्यभिव्यक्तस्वरूपः कार्मणे, तद्धि पाणिपादमुखलोचनाद्यवयवविनिर्मुक्तं मनोवाग्रव्यापाररहितं च, अतो न हिंसाद्यास्रवकृतं तेन कर्म बध्यते । तथा तेन न वेद्यते, न निर्जीयते वा, एवंविधानवजनितकर्म तेन शरीरकेण नानुभूयते,तस्य ह्युपभोगो नारकादिगतिषु नान्तर्गतौ अत्यल्पकालत्वात् औदारिकवैक्रियाभावाच, अनुभूयमानमेवेह निर्जीयते नीरसतामापाद्यमानं परिशटदात्मप्रदेशेभ्यःप्रत्यस्तस्नेहलेशमामुक्तरसकुसुम्भकवनिर्जीर्णमुच्यते, न चैतत् तस्यामवस्थायां मनोव्यापाराभावात् प्रतिपत्तुमुत्सहन्तेऽतिकोविदाः, तथा कार्मणं हि कर्मसङ्घातः स चोपभोग्यो भवति, नोपभोजकः । औदारिकाद्यप्येवमेवेति चेत्, न, बाह्येन्द्रियपक्षतामङ्गीकृत्योपभोक्तृत्वमौपचारिकमत्यन्तप्रसिद्धम्, अतोऽभिव्यक्तसुखदुःखकानुबन्धानुभवनिर्जरालक्षणमुपभोगमाधाय
१ ‘णत्वात्राऽन्तराव' इति क-ख-पाठः । २ 'पर्यायनयसमाश्रयणात्' इति ख-टी-पाठः। ३ 'प्रत्यस्तनेहलेशमामुक्तरस' इति क-ख-पाठः, 'पादलेशानामुक्तं ' इति ग-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org